SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ पश्चमे स्कन्धे IIEI पञ्चमे स्कन्धे विंशतितमः सर्गः। सर्गः 20 // 137 // मुनेर्वचनाद् दमयत्या कृता शान्ति प्रभोराराधना // // 2 // DISEII RISHITAITHII AII अथ तत्र समारेमे शान्त्याराधनलक्षणम् / नलस्य विरहे देव्या दमयन्त्या महत् तपः त्रिसन्ध्यं कृतनिर्माल्या वैयावृत्त्यपरायणा / निराशा तु मुनीशस्य सा तद् विम्बमसेवत पुष्पगन्धाम्बुनैवेद्यधूपदीपफलाक्षतैः / विदधे विविधा पूजा वनचर्यानुयायिनी आचाम्लव्रतयोगेन दुर्बलाङ्गलतापि सा / पुण्योपचयवीर्येण न विवेद परिश्रमम् क्रमेण तपसः शक्त्या प्रीताभिः प्रतिवासरम् / विदधे वनदेवीभिः सानिध्य दमनस्वसुः इत्थं तपः तपस्यन्त्यास्तत्र भीमभुवस्तदा / ययुः पश्चशतान्यह्वामेकवासरलीलया न विद्यः सा कथं तस्थौ तस्मिन्नेकाकिनी वने ? / अचिन्त्यमथवा सर्व चरित्रं हि महात्मनाम् अथ तारापथस्कन्धाद् निपतन्तं पतङ्गवत् / देवी सशिष्यमैक्षिष्ट विवर्णवदनं मुनिम् स तया विहितातिथ्यस्तथ्यवादी विदग्धया / कल्याणि ! का कथं चात्र त्वमेकैवेति ? पृष्टवान् तथा पतिपरिभ्रष्ठां शान्तिभक्तां गुरोगिरा / सापि स्वं तत्पुरो भैमी नलपत्नीमचीकथत् अदर्शयच्च तां मूर्ति तस्मै विस्मितचेतसे / अपृच्छच्च सती तस्य मुखवैवर्ण्यकारणम् सोऽप्यभाषत वैदर्भी वक्ष्ये वैवर्ण्यकारणम् / इदं पुनरभूद् भव्यं यद् दृष्टासि महासति ! IIIIIIIIII FIFII RISHI-IIIF Isle // 10 // // 12 // // 137 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy