________________ ISFII ISIATElla II II RILMIBHIS ततस्तया कृतां मूचि मत्रन्यासढीकताम् / समर्पयन मुनिर्वाग्मी स जगाद महासतीम् त्वमिमा प्रतिमा शान्तेराचाम्लनततत्परा / तावदाराधयागत्य न यावत् कोऽपि याचते // 8 // शान्तिप्रमावादिह शान्तसत्वे गिरौ वसन्त्यास्तव राजपत्रि। न वाल्मनःकायविकारकारी संपत्स्यते विघ्नकणोऽपि कश्चित् तस्येची चेतसि बद्धमूलां विधाय शिक्षामपनीतदुःखाम् / उवाच देवी प्रणिपत्य हटा दिष्ट्या कृतार्था भगवन् ! कृतास्मि // 10 // अयं स च त्वं च मुनीन्द्र ! सर्वे क्षमाभृतां मुख्यतमात्रयोऽपि / त्वदाज्ञया तद्विरहे तदत्र स्थास्यामि शान्ति प्रभुमर्चयन्ती // 19 // इत्युक्तवन्तीं मुनयस्ततस्तां आपृच्छथ शीघ्रं गगनेन जग्मुः। सा तत्र तस्थौ गिरिकन्दरायामुदारशीलामिहितव्रता च // 12 // इतिश्रीमाणिक्यदेवसरिकृते नलायने पञ्चमे स्कन्धे एकोनविंशतितमः सर्गः // 19 // HISHI-IIIIII-III