________________ पञ्चमे स्कन्धे सर्गः१९ // 136 // ऋषिसदसि तदादि स्वीकृतप्राणिरक्षानियमनिरुपम तौ चारु निर्वाध राज्यम् चरमवयसि दत्त्वा मुख्यपुत्राय लक्ष्मीविमलतरतपोभिः प्रापतुः स्वर्गभोगान् // 58 // इति स्फुटप्रकटितकर्मवैभवं कलावतीचरितमिदं मदाननात् / निशम्य सम्यगपि विचार्य चेतसा विदर्भजे ! भज निजदुःखलाघवम् // 59 // इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे अष्टादशः सर्गः // 18 // SHIFTII-IIIIIFISSIBITE दमयन्त्या आश्वासनाय भास्करशिष्येण कथिता कलावत्या: कथा॥ पञ्चमे स्कन्धे एकोनविंशतितमः सर्गः / अनन्तरमनन्ताख्यं मुनि प्रति मनस्विनी / उवाच वञ्चितक्केशा दमयन्ती दमान्विता भगवन् ! भवतो वाक्यैदृढदृष्टान्तशालिभिः / दुःखोस्क्षिप्तमपि क्षिप्रं सावष्टम्भं कृतं मनः तत् प्रयच्छ ममादेशं दिशं दर्शय कामपि / किं करोमि ?क्क गच्छामि ? कतिष्ठामि ? स्मरामि किम् ? // 3 // ततोऽवोचद् मुनिभैमी वत्से ! पृच्छसि साधु माम् / शृणु तावदिहैव त्वं तिष्ठ कल्याणि ! संप्रति अद्यापि तव पश्यामि चिराद् बन्धुसमागमम् / वर्षा च शिरसि प्राप्ता भावी मार्गोऽपि दुर्गमः त्वमिह प्रतिमा शान्तेर्विधेहि सिकतामयीम् / तदाराधनयुक्तिं ते कथयामि शुमे ! यथा DIBHIA III II IIIIIIIIIII // 136 //