SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ = स्कन्धे = ISISTRI सगे:१८ morr9 = = // 134|| = दमयन्त्या आश्वसनाय भास्करशिष्येण कथिता कलावत्याः कथा / I = BINISTEL TRAII-IIIIIIEIA = किश्च पाषाणपाशाली पुत्रं धात्रीव पाति यत् / अहो ! आश्चर्यमाश्चयं दृश्यतां दृश्यतामिदम् यत्पार्श्वे चास्ति सापत्या वानस्पत्यस्य तस्य च / सत्प्रतिज्ञेव हि च्छाया परिवृत्ता न वर्तते // 4 // अपूर्वमिव सञ्जातं तदा देव्याः समाश्रयात् / इदमुत्फुल्लबल्लीकं फलस्फीतद्रुमं वनम् अस्याः संपर्कतः संप्रत्येषापि नगनिम्नगा / धिनोति धेनुवल्लोकं बत बष्कयणी पुरा साश्चर्यमिव जल्पन्तः क्षोणीमिलितमौलयः। प्रणेमुनिखिला लोकाः सतीतीर्थ यदद्भुतम् // 7 // अच्छत्रचमराटोपं खिन्न चरणचारिणम् / दृष्ट्वा च पतिमायान्तमभ्युत्तस्थौ कलावती // 8 // आर्यपुत्र ! स्वपुत्रेण स त्वं विजयवान् भव / यदशिभक्तिरक्लिष्टारिष्टतातिर्ममान्वहम् इति लज्जानमद् मौलेः साश्रुनेत्रस्य भूभुजः / तां प्रियाणि प्रजल्पन्तीमुवाच सचिवाग्रणीः // 10 // मातः कलावति ! युक्तं यदात्थ तत् तथैव तत् / जितं देवेन यस्यासि यशः श्रीस्त्वं शरीरिणी साधु साधु सती त्वं चेदित्यं किमपि साध्यते / चतुर्भुजतया जाता यथासि त्वं कलावति ! // 12 // क्वचिद् जलकणोदारी खल्वर्कचन्द्रचुम्बितः / त्वत्पुत्रमुखचन्द्रेण प्रावस्वी दुग्धवर्षिणी // 13 // गृह्णन्ति फलपुष्पाणि स्नान्ति वारिणि निर्मले / इह त्वदाश्रमे रम्ये जनाः कल्याणकाङ्क्षिणः // 14 // किञ्चित् तदाभविष्यत् चेत् तत् क राजा क वा जनः / न विद्मस्त्वं महाराजो जनो वा भाग्यवानयम् // 15 // नास्त्येव हृदि ते पत्युयलीकं तु क्षमस्व च / दशार्णराजपुत्रि ! त्वं देवतासि न मानुषी // 16 // = DISHI AISHII III II // 134 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy