________________ SIBHI HISSIII-IIISHI FISHI II रथनरकरिवाजिनां सहौस्तिलतुषतुल्यतयापि वीक्ष्यमाणैः। कथमपि न कलावती अपना दुरधिगम खलु वस्तु कार्यकाले // 40 // गिरितरुसरितामपूर्वभावं वहति वने वनदेवताप्रमावात् / समजनि हृदि रोषणादिकानामपि तदिदं न वनं किलेति मोहः // 41 // क्षितिपतिदुहितुः श्रुतिं जगाम द्रुतमतुलस्तुमुलो बलव्रजानाम् / तदपि न हृदयं पुनश्चकम्पे ननु रतिरेव हि माविभाग्यदूती . // 42 // सैवाग्रतः कलय शक! कलावतीयं साक्षादिति त्वरितमेत्य ततः कुतोऽपि / आरुह्य द्रमुदयाचलचूलिकायां निर्दिष्टवानिव करप्रकरैः पतङ्गः // 43 // इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे सप्तदशः सर्गः // 17 // ISIS SII-IIIFISHI VISSINISEI II पञ्चमे स्कन्धे अष्टादशः सर्गः / अथ तत्र जनैः प्रातः पुत्रहंसोपशोभिता / दृष्टा चलत्कराम्भोजा नलिनीव कलावती जितं जितमहो दिल्या देवी देवीयमग्रतः / अक्षता पुत्रयुक्ता च निषिण्णास्ति नदीतटे