SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। श्रीनलायनस्य III II AEIGAMEII A II III HINE सारेण तत्रस्था भाण्डागारा दृष्टाः किन्तु तत्र तिस्रः प्रतयो नोपलब्धाः, केवलमेकैव विद्यते, सूचीपत्रका च तस्य ग्रन्थकारस्य सेतुनाटककर्तृत्वं प्रतिपादितं न तु पञ्चनाटककर्तृत्वम् , उपलब्धासु पूर्वासु तिसूषु प्रतिषु पञ्चनाटककर्तृत्वं लिखितं, जेसलमेरुभंडारसूचीपत्रे सेतु नाटककर्तृत्वं लिखितमिति संदेहे जातेऽस्माभिः जेसलमेरुस्थतपागच्छभण्डारस्था प्रतिः सम्यगवलोकिता किन्तु तत्र नाटकशब्दागे.... बे| इति त्रुटिचिहं दत्तं परं न किञ्चिदपि लिखितमतः सम्यग्निणेतुं न शक्यते / अस्यां प्रतौ "1659 वर्षे तपागच्छाधिराजभट्टारकश्री 19 डा श्रीआनन्दविमलसूरीश्वरशिष्यपण्डितश्रीवानरगणिशिष्य पं.आनन्दविजयगणिभिर्नलायनं काव्यं जेसलमेरुभाण्डागारे मुक्तम्" इति लिखितम् / एवं प्रथमे द्वे प्रती पञ्चदशशताब्दीये, तृतीयायास्तु समयो नोपलभ्यते, चतुर्थ्यास्तु सप्तदशशताब्दीयो लेखनसमयो ज्ञायते ग्रन्थकारस्य विद्यमानता चतुर्दश्यां शताब्द्यामासीदिति च निर्णीयते / नलायने विशेषः नानाविधैः चित्ताकर्षकरसवच्छन्दोभी रसोर्मियुक्तालङ्कारैरनुप्रासादिमिर्ग्रन्थकर्तुः खलु स्वग्रन्थरचने प्रौढत्वं श्रोतृणां चित्ताऽऽहादकत्वं, पिपठिपूणां चोच्चाऽऽदर्शशिक्षाप्रदत्वं चाभिव्यज्यते / एतच्च पूर्वोद्धतैः श्लोकैः परीक्ष्यते / कीदृशस्य नायकस्य चरित्रं वर्णनीयमिति जिज्ञासायाम् नायकाश्चतुर्विधाः साहित्ये वर्ण्यन्तेधीरोदात्ताः, धीरोद्धताः, धीरललिताः, धीरप्रशान्ताश्च / तत्र धीरोदात्तः खलु अविकत्थनः, धैर्यवान् , अतीव गम्भीरः, महासत्त्वो हपशोकयोः समस्वभावः, विनयच्छन्नगर्वः, दृढव्रतः, प्राणविनाशेऽप्यङ्गीकृतपालकः, एभिर्गुणैरस्य चरितनायकस्य धीरोदात्तत्वं ज्ञायते। IIIIIIEISHIR IIIIIIIIM
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy