________________ ICAISAle IITIATI III All तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धो जगाम नवमो रमणीय एषः / / नवमः स्कन्धः, चतुर्थः सर्गः, लोकः 36, पृष्ठम् 183 / एतत् किमप्यनवमं नवमङ्गलाई, साहित्यसारविदुषा कविना कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धो जगाम दशमः शमसंभृतोऽयम् // दशमः स्कन्धः, चतुर्थः सर्गः, श्लोकः 23, पृष्ठम् 188 / प्रतीनां लेखनसमय: याःप्रतयोऽस्माकं समीपे विद्यन्ते तासामवलोकनेन ज्ञायते यद् उग्रसेनपुरीया विजयधर्मलक्ष्मीज्ञानमन्दिरतः प्रतिः प्राप्ता या, तस्यां विक्रमीये १४९३वर्षे मार्गशीर्ष शुक्ले पूर्णिमायां तिथौ चंद्रवासरे तालध्वजे दुर्गे पं० गुणकीर्तिगणिपार्थस्थितेन पं० कृपासागरगणिना लिखिता श्रावकाणां श्रेयार्था' इति लिखितम् / |. द्वितीया प्रतिः भावनगरस्थपं०गंभीरविजयमाण्डागारीया, सा च वैक्रमीये 1475 वर्षे भाद्रपदमासे श्रीडूंगरपुरे लिखिता लिम्बाकेन / तृतीया प्रतिः मुम्बापुरीस्थरॉयलएशियाटिकसोसायटीसंस्थाया उपलब्धा / तत्र चायमुल्लेखः श्रीजीवराजशिवराजकोविदाम्यामसौ प्रतिर्मुमुचे / चित्कोशे पुण्यार्थ पंडितनीकर्षिशिष्याभ्याम् // 1 // चतुर्थी प्रतिस्तु वटप्रदग्रामस्थओरियन्टलसोसाइटीनाम्न्या संस्थया प्रकाशिते जेसलमेरुभंडारसूचीपत्रे सूचितासु चतसृष्वन्यतमा तदनु || AIIIIIIIIIISIS