________________ IIIIIIIIIIIIIIEIII || कतिपयानि नलविषये चरित्राणि अतिविख्यातस्य पुण्यजन्मनः श्रीमतो नैषधस्य नलभूपतेः प्राचीनतरैरर्वाचीनैर्बहुभिर्गीर्वाणवाण्युपासकैर्भारतीयैः कृतज्ञैः संस्कृतप्राकृतादिभाषासु काव्य-कथा-चम्पू-नाटकादिभिभिन्नभिन्नसंक्षिप्त-विस्तृतरीत्या विरचितानि चरितान्युपलभ्यन्ते। सतीशिरोवतंसाया भीमपुञ्या दमयन्त्याः पातिव्रत्येन पवित्रीकृतानि सुचरितानि, दोषयुक्तानि द्यूतादिव्यसनानि च जिनोपासकैरितरैश्च कैः कैः कोविदैः कं कं निबन्धं विधाय प्रदर्शितानीति जिज्ञासया गवेषणायां प्रथमं जैनविदुषां नलविषये संस्कृतप्राकृतकृतयः प्रदर्श्यन्ते. १-गायकवाडओरियन्टलसीरीज़संस्थया प्रकाशितं नलविलासनाटकं कलिकालसर्वज्ञ-आचार्यशिरोमणिश्रीमद्हेमचन्द्राऽऽचार्यशिष्यवर्यपण्डितप्रवररामचन्द्रसूरिविरचितम् / २-भावनगरस्थया जैनधर्मप्रसारकसभया प्रकाशितं त्रिषष्टिशलाकापुरुषचरित्रान्तर्गतम् अष्टमे पर्वणि तृतीयसमें नलचरितं महाराजकुमारपालभूपालप्रतिबोद्धृ-कलिकालसर्वज्ञ-हेमचन्द्राऽऽचार्यनिर्मितम् / ३-भावनगरस्थयशोविजयजैनग्रन्थमालातः प्रकाशितं प्रस्तुतं नलायनं महाकाव्यम् ( कुबेरपुराण-शुकपुराणापरनामकम् ) महाकविमाणिक्यदेवसूरिनिर्मितम् / ४-नलचरितम्-भावनगरस्थया आत्मानन्दसभया प्रकाशितं प्राकृतगद्यं धर्मसेनगणिविरचितवसुदेवहिण्डीमध्यमखण्डान्तर्गतम् / ५-नलोपाख्यानम्-देवप्रभसूरिविरचितपाण्डवचरितान्तर्गतं यशोविजयग्रन्थमालायां प्रकाशितम् / lIIIIIIEIIIIIIIIFIE