________________ पञ्चमे ISाजा स्कन्धे सर्गः१४ // 128 // दमयन्त्या आश्वासनाय भास्करशिष्येण करिता कलावत्याः I न विवेद प्रियोक्तीनां पारंपर्य स पार्थिवः। तस्याः पिटगृहात् प्राप्तमुपायनमतर्कयत् / / 46 // धिर धिग् मलिनशीलायां प्रेमास्यां मम निर्भरम् / बहिर्मुखस्य दुर्बुद्धेर्मुधा रागान्धचेतसः // 47 // आः पापे ! विकलीभावं कुलटात्वेन विभ्रती / कलावतीति-नाम स्वं वहन्ती नहि लजसे // 48 // मवतु प्रतिकारमेष सर्व द्रुतमस्याः सदृशं समाचरामि / स्थितिलविनि दुर्जने विलज्जे न मुहूर्त महतां मनोऽनुरागः // 49 // याभ्यां गर्वमियं विभार्ति भुजयोनिःपुण्यका पुंश्चली ताभ्यामेव भवत्विमा यदि नहि व्यापादयामि क्षणात् / नन्वस्याः सुतरां लघुर्यदि मया दत्तोर्युदोऽप्यस्ति यत् तद् लूनां महतीं ददामि सपदि स्वच्छायया जायते॥ 50 // इत्युद्दामक्रोधरुद्धः प्रवेशं नैवाकार्षीत् मन्दिरे स प्रियायाः / तस्यायोक्तं व्यत्ययेनेव मेने स्वादु द्रव्यं शुद्धपित्तज्वरीब व्यावृत्य तद्धवनतः स्वमवाप्य हर्म्य दुःकर्मसाधनविधिं रहसि प्रपश्य / देवीं कदर्थयितुमुल्वणचित्तवृत्तिः तं तं जनं विनियुजे स निजाननेन // 52 // इतिश्रीमाणिक्यदेवरिकृते नलायने पञ्चमे स्कन्धे चतुर्दशः सर्गः // 14 // BHI AISI ASIA ISTIATI THIS Iske DISHI AISII II I // 128 //