________________ पञ्चमे सगे:८ // 115 // समजनि रजनीमयं रजोभिर्नृपतिमनुव्रजतां ततोऽबलानाम् / क्षुभितमनुजनं वनं तदासीत् शिथिलितगोष्ठिचतुष्टयं च तासु // 49 // निजबलमखिलं बहिर्विधातुं लघु ललितं प्रचचाल भूमिपालः / उटजमनु समन्विता सखीभ्यां स्मरभररुद्धगतिः शकुन्तलाऽपि // 50 // व्यर्थ तस्थौ व्यथितचरणा दर्भसूच्या किलेति व्यावृत्ताक्षी विटपघटितं वल्कलं चेत्यपश्यत् / स प्रत्याशं वलितनयनं पश्यतस्तस्य राज्ञः शून्यं चक्रे कुलपतिसुता तेन चित्तं सुरावत् // 51 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे अष्टमः सर्गः // 8 // दमयन्त्या आश्वासनाय चारणश्रमणैः कथितं शाकुन्तलाख्यानकम्। ताजाIVISIMIRISHIFile ISISHI-IIIIII-SHIFile पञ्चमे स्कन्धे नवमः सर्गः / उटजं प्राप्य न प्राप रतिं क्वापि शकुन्तला / स्कन्धावारगतो राजा निद्रां निशि न लब्धवान् // 1 // शून्या नाचिन्तयत् किश्चिद् नित्यकृत्यं मुनेः सुता / तद्नासन्नमास्थाय नास्मरत् पौरवः पुरम् // 2 // उभौ लज्जानदीरुद्धावुभौ दुर्लभरागिणौ / सव्यापसव्यमुक्तेपुर्जघन्वान् तद् द्वयं स्मरः इत्थं तद्युग्ममारुह्य स्वैरं वदति मन्मथे / दैवाद् नक्तश्चरैश्चक्रे मुनीनां यज्ञविप्लवः // 4 // // 115 //