SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ II IIIATICAI AII IIFle विवेकविकलस्याहं पतिता तस्य पञ्जरे / नैवाधिजगाम क्षेमाद् निर्गमं यत्नवत्यपि // 27 // तं वराकमनात्मज्ञं स्वहस्ताङ्गारवर्षिणम् / सहसातिमयाचक्रे भस्मसाद् वरदो हरिः // 28 // पुनः पथि मया प्राप्तो वणिक्सार्थस्य सङ्गमः / स नक्तं दन्तिभिर्ध्वस्तः स्वेच्छावान् व्यसनैरिव // 29 // साऽहं पतिपरित्यक्ता नष्टध्वजपटेव नौः / दुर्दशावर्त्तगर्नेऽस्मिन् वर्णमानाऽस्मि दुर्द्धरे // 30 // विश्वविश्वम्भराधारधुरन्धरभुजो मम / दक्षिणस्या दिशः स्वामी भीमभूमिपतिः पिता // 31 // निजपत्युः समादेशाद् गच्छन्ती पितृमन्दिरे / अहं सम्यग् न जानामि तत्र यास्यामि वा नवा // 32 // तस्य राज्ञो हि चेत् किश्चित् तत् क्व नौ सङ्गमः पुनः / मम वा किश्चिदक्षेमं तत् क नौ सङ्गमः पुनः 1 // 33 // आशापाशः प्रसभमभितो जीवितं मे रुणद्धि प्राणत्यागो हठविरचितः श्रेयसे नोपदिष्टः / एकैकाऽपि व्रजति घटिका कल्पकोटिप्रमाणा नो जानामि त्वरितमधुना यद् मया किं विधेयम् // 34 // अस्मिन् काले दश विजयते वर्षलक्षाणि देही तेषामेकं मम परिणतं पूर्णवर्षायुतोनम् / तेनेदानीं न विषयरसाश्चेतसो यान्ति शान्ति वर्षाकाले कथयति कथं मन्दतां वारिवेगः ? // 35 // एकाकित्वं दयितविरहः काननं मार्गखेदः स्थानभ्रंशो विभवविगमः साध्वसं दुर्जनेभ्यः / इत्थं दुःखं निखिलमपि मे बालकालेऽपि जातं मन्ये नाभूदहमिव भवे दु:खिनी काऽपि नारी // 36 // नन्वेतद् मे किमपि भगवन् ! वृत्तमामूलभूतं श्रुत्वा दुःखं सहृदयहृदयैर्नैव कार्य भवद्भिः। IA ISIT - TEII ETHINTEII ATHISTAINS
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy