SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ GISIIIIIIIIIIII-IIIs Sille राजन् ! पुरा सनगरद्रुमसिन्धुशैलां विश्वम्भरामपि भवान् बिभराम्बभूव / एकाकिनीमनुसृतां दयितामिदानी स्वीक मत्र स पुमानपि न क्षमोऽसि // 26 // न कलयितुमशक्यं शृङ्गयुग्मं वृषाणां न खलु निजविषाणौ दुर्वहौ दन्तिनां वा / न हि शिरसि पिधानात् पूर्णकुम्भस्य भारो भवति हि परिणीता कस्य कान्ता क्लमाय? // 27 // अधिजलधि वहति कूलङ्कमा प्रतितरुवरमेति वल्लीगणः / गतिरिह पतिरेव देवस्त्रियां तदिह कथय नाथ ! मुक्ताऽस्मि किम् ? // 28 // अहर्निशं नृपकुलमानमर्दनं बभूव यत् प्रियतम ! साहसं तव / दुरोदरव्यसनवशेन दीव्यता कथं त्वया तदपि नरेन्द्र ! हारितम् ! // 29 // किं वा मिथ्या नृपकुलगुरो ! दीयते दूषणं ते नूनं ग्रस्तस्त्वमसि महता केनचिद् व्यन्तरेण / तेनैवैते तव विरचिता दुर्दशावर्तपातास्तेनैवायं मम च रचितश्चित्रवल्लीविलासः // 30 // नूनं तावत् किमिह बहुना तेऽपि जल्पन्तु देवा देवश्चायं भुवनतिलकः कर्मसाक्षी समक्षः। यः कश्चिद् मे व्यथयति पतिं यावदन्तर्निलीनस्तावत्कालं क्षणमपि सुखं तस्य माभूत् कदाचित् // 31 // नित्यं चितं दहतु दवथुस्तस्य कालाग्निकल्पः स्वल्पोऽप्यङ्गं न परिचरतु श्रीविलासस्तदीयम् / इत्युक्त्वाऽसौ विमलसलिलैः क्षालयित्वाऽङ्गभागं तस्मिन् तल्लस्थलपरिसरे नित्यकृत्यं वितेने // 32 // AISEII NISIT AIII SAURI ATHIIIजात
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy