SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। भीनलायनस्य // 3 // जितपुष्कर सकलरुद्धपुष्करं निनदन्नुदारमनुदारमुत्सुकः / इह शीतलं समवगाह्य पुष्करं प्रतिपुष्करं क्षिपति पुष्करं करी // 25 // प्र० स्क०७ स० लोलानिलेनाननुनूननुन्ना नानालिलीलोल्लललं लुलाना / नूनेन नूनं नलिनाननेन नलेन लीना ललने ! ललालम् // 49 // प्र० स्कं० 11 स०। पट्टवन्धः सहसारिकृतत्रासः सत्रात त्वं कलारसः / सरलाशयताभासः सभातारोरुसाहसः // 48 // स्कं० 1 स०२। एवं स्थाने स्थाने शब्दानुप्रासैः, यमकैः, श्लेषादिमिश्चालङ्कारैः परिपूर्ण चेदम् / ग्रन्थकर्तुः परिचयः / प्रत्येकस्कन्धान्ते ग्रन्थका स्वप्रशस्तिः स्वयमेव प्रदत्ता / तत्र च ' माणिक्यसूरिः' इति स्वनाम लिखितम् / परमनेन कविरत्नेनायं ग्रन्थः कदा निर्मित इति समीचीनरीत्या निर्णयं कर्तुमस्माकं समीपे यद्यपि पुष्कलं साधनं न विद्यते तथापि यानि कानिचिद विश्वसनीयानि साधनानि उपलभ्यन्ते तान्येवात्र प्रकटीक्रियन्ते- . स्व. आचार्यबुद्धिसागरसूरिणा प्रणीते - जैनप्रतिमालेखसङ्ग्रह-' नाम्नि ग्रन्थे प्रथमे भागे षड्विंशतितमे पत्रे सप्तत्रिंशदधिकशतसंख्यके लेखे लिखितम् “सं. 1327 फा. शु. ८....पलीवालज्ञातीय....कुमरसिंघभार्या कुमरदेविसुत सामंतभार्या सिंगारदेवि पित्रोः पुण्यार्थ....विक्रमसिंह ठ० लूणा ठ० सांगाकेन श्रीमहावीरबिम्बं का०प्र० वडगच्छे कूत्रडे....श्रीपडोचंद्रसूरिशिष्य-श्रीमाणिक्यसूरिभिः // " द्वितीयं प्रमाणमुपयुक्तस्य पुस्तकस्य षट्सप्तत्यधिकशततमे पृष्ठे एकाशीत्यधिकनवशतसङ्ख्याके लेखे लिखितम् SIBILAREII III II ASIATIII
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy