________________ | RTISII ASIA ISHI AIIIIIITTE नलप्रशंसा यत् पुण्यं जाह्नवीस्नानाद् यत् पुण्यं गुरुपूजनात् / यत् पुण्यं प्राणिनां त्राणात् तत् पुण्यं नलकीर्तनात् / / 20 // प्र० स्कं० 1 स०। नलकीर्तने नलनामग्रहणे च फलम् यथा श्रेयस्करं दानं यथा पापहरं तपः / यथा शौचकर शीलं तथैव नलकीर्तनम् // 22 // प्र० स्कं० 1 स० / एकतः शकुनाः सर्वे सुप्रशान्ताः फलप्रदाः / कार्यकाले नलस्यैकं नामग्रहणमन्यतः // 23 // प्र० स्कं०१ स०। भरतश्चार्जुनश्चैव वैण्यश्च पृथिवीपतिः / नलश्च नैषधो राजा यात्रायां सिद्धये स्मृताः // 24 // प्र० स्कं० 1 स०। निर्मलं धीरललितं विशालं विश्वविश्रुतम् / पुण्यश्लोकस्य राजर्षेः कीर्तनं कलिनाशनम् // 26 // प्र० स्कं० 1 स०। अन्यस्मिन् ग्रन्थे च नलादीनां स्तुतौ फलप्रदर्शनम् कर्कोटकस्य नागस्य, दमयन्त्या नलस्य च / ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् // 1 // ग्रन्थेऽस्मिन् शब्दानुप्रासः, अन्ये चालङ्काराःकलाकेलिकल्लोलिनीलब्धपारः कुले वीरसेनस्य धर्मावतारः। जयश्रीवधूकण्ठशृङ्गारहारः सदा नैषध ! त्वं सदाचारसारः // 6 // स्कं० 3 स०१। कलुषः कुटिलः कुण्ठः कितवः क्रोधनः कुधीः / कृतभः कृपणः क्रूरः कठोरः कोऽपि नाभवत् / / 41 // प्र० स्कं० 1 स०। अपारिजातस्य सपारिजातं निरन्जनस्यापि घनाञ्जनौघम् / तथापि राजन् ! न तवापि हर्ष वनं विधत्तामवनप्रियस्य // 11 // स्कं० 1 स०७। CHIIIIIIIEIR ISRIFISHIFF