SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। श्रीनलापनस्य नलायनम् पुण्यश्लोकचरितरूपमिदं नलायनं दशस्कन्धान्तर्गतकोनशतसर्गात्मकमत्युत्तमम् / तत्र प्रथमे स्कन्धे पञ्चदश सर्गास्तेषु चतुर्विशत्यधिक| षट्शतसंख्याकाः श्लोकाः 624, द्वितीये स्कन्धे षोडश सर्गाः, एकसप्तत्यधिकचतुःशतसंख्याकाः श्लोकाः 471, तृतीये स्कन्धे नव सर्गाः, एकोननवत्यधिकद्विशतसंख्याकाः श्लोकाः 289, चतुर्थे स्कन्धे त्रयोदश सर्गाः, द्वयूनसप्तशतसंख्याकाः श्लोकाः 698, पञ्चमे स्कन्धे एकविंशतिः सर्गाः, नवत्रिंशदधिकनवशतसंख्याकाः श्लोकाः 939, षष्ठे स्कन्धे सप्त सर्गाः, चतुःपञ्चाशदधिकत्रिशतात्मकाः श्लोकाः 354, सप्तमे स्कन्धे षट् सर्गाः, अष्टाशीत्यधिकद्विशतसंख्याकाः श्लोकाः 288, अष्टमः स्कन्धः चतुःसर्गात्मकः त्रिपश्यधिकैकशतश्लोकात्मकश्च 163, नवमः स्कन्धः चतुःसर्गात्मकोऽष्टादशाधिकशतश्लोकमयः 118, दशमस्तु स्कन्धश्चतुःसर्गात्मकः षडधिकैकशतश्लोकसंख्यश्च 106 / एवमेकोनशतसर्गात्मकं पञ्चाशदधिकचतुःसहस्रश्लोकसंख्यकमिदं नलायनम् / इदं च विस्तृतं नलायनं श्रीनल-दमयन्त्योश्चरितात्मकं द्वादशवर्षपर्यन्तं दम्पत्योर्वियोगवर्णनेन महदद्भुतं, द्यूताऽऽसक्तजनानां या या दुर्दशा परिवर्त्तनं च यादृशं भवति तेनातीव हृदयग्राहि, प्रासंगिकोदाहरणेन मनोहरं च वरीवर्ति / अस्मिन् मन्थे शाकुन्तलाख्यानक, कलावत्याः तिलकमनश्चिावान्तरकथा अपि विद्यन्ते / नलायनप्रशंसा निदाघे चन्दनं हृद्यं, हृया वर्षासु मालती / पिकध्वनिर्मधौ हृद्यः, सदा हृद्यं नलायनम् // 21 // प्र० स्कं 1 स० / अमीम मीमसंयुक्तममरालं मरालघत् / न कस्य विस्मयं दत्ते, वाच्यमानं नलायनम् // 25 // प्र० स्कं० 1 स। DIMEI = ISFI 4 I95l ISRI 4 TRI 4 IMEI 3 I55l
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy