________________ DISHI RISHIRISHI VIIMIHIRISHI | ॐ नमः प्रभुश्रीविजयधर्मसूरिगुरुभ्यः / प्रस्तावना इहैव भारतेऽद्यावध्यनेके बुद्धिधनपराजिताशेषधनधारिणो ज्ञानवैभवाः श्रीमन्तः कविशिरोमणयः संजाताः, यैन केवलं ग्रन्था एव निर्मिताः किन्तु स्वकीयकाव्यकर्तृत्वनैपुण्येन महतामशेषदिक्चक्रचक्रवर्तिनामुपरि संपूर्णतया धर्मप्रभावोऽपि सुचारुरूपेण निहितः / अद्यावध्यस्मिञ्जगति कियन्तः कविशेखराः संजाताः, केन केन कविना च के के ग्रन्थाः केषु केषु विषयेषु निर्मिता इति यद्यपि निर्णयो नास्ति तथापि ये प्राचीनतराश्चरितग्रन्था भाण्डागारेषूपलभ्यन्ते तेषामवलोकनेनावगम्यत एवैतद् यन्महाराजनलनृप आसीत् / तस्य च बहुभिारतभूषणैः कविभी रामचन्द्र-हरिश्चन्द्रचरितवद्यच्चरितमलिखितं तदद्यावधि तत्तद्देशीयभाषासु विलोक्यते तथापि कवित्ववैचित्र्यादतीव प्राचीनत्वादस्माभिर्मुद्रितेषु ग्रन्थेषु समावेशाभावाच्च श्रीमाणिक्यसूरिनिर्मितं नलायननामकं नलचरितं प्रकाश्यते / अस्माभिस्तिस्रः प्रतयोऽस्यावलोकिताः, तासु चैका भावनगरस्थपंन्यासगम्भीरविजयज्ञानभाण्डागारादधिगता, द्वितीया चोग्रसेन(आगरा)पुरीयश्रीविजयधर्मलक्ष्मीज्ञानमन्दिराच्चोपलब्धा, तृतीया च मुम्बापुरीस्थरॉयल-एशियाटिकसोसाइटीसंस्थायाः प्राप्ता / उपरितनेषु त्रिषु पुस्तकालयेषु यानि पुस्तकानि विद्यन्ते तानि सर्वाण्यतीव शुद्धानि / HII-IIEISIN IFIM ISHI ||