________________ चतुर्थे स्कन्धे भीमजात्यागे वि सर्गः 11 वदमानो नलः॥ // 94 // III AISIT A THINGA MEII AISI VIBIO IES विभिन्नरत्नवद् राज्यमपुनर्योज्यमात्मनः / सम्भाव्य भग्नसामो धैर्यध्वंसमवाप सः // 8 // विहाय दृक्पथं तस्या गन्तुकामः स लज्जया / दध्यौ कलिबलग्रस्तसमस्तगुणगौरवः अहो ! त्रिलोकमङ्गल्या भीमपुत्री दमस्वसा / वीरसेनस्नुषा देवी मया पत्या विडम्ब्यते // 10 // न मम घूतकारस्य सतीयं युज्यतेऽन्तिके / कपालमालिनो मौलौ कला चान्द्रीव शूलिनः / // 11 // इमां संप्रति सन्त्यज्य क्षीणचन्द्रः क्षपामिव / अहं शूरस्य यास्यामि सकाशं कस्यचित् प्रमो! // 12 // एकाकिनी तदपहाय वने प्रसुप्तां प्राणप्रियामनुचरी कुलजां सुसाध्वीम् / एतन्मया कुलवतामतिगर्हणीयमात्मोदरम्भरिपदं प्रतिपद्यतेऽद्य / // 13 // एकः स्वदारपरिहारविभुनलोऽभूदेतद् यशः प्रसरतु त्रिजगत्सु नित्यम् / इत्थं विमृश्य स करं दयितोपधानस्थानस्थितं विघटयन् मनसा जगाद // 14 // इमममिनवरूपं कर्मचण्डालमुच्चैरयि ! परिहर मुग्धे ! पापिनं मामभव्यम् / ननु गुणगणवल्लि ! स्वेच्छयेवाधिरूढा कथमसि विषवृक्षं कल्पवृक्षभ्रमेण ? कुलवति ! कुललजाभृङ्खला येन लुप्ता स खलु नलगजोऽहं निर्विवेकाडशोऽस्मि / तव निवसनमेतद् बन्धनं ब्रूहि मुग्धे! मम किमिव हि लूतातन्तुतुल्यं तनोतु ? या दुर्गभङ्गविषये परपार्थिवानां पूर्व बभूव ननु भूवलयप्रसिद्धा / HIARIIIIIIIIIII ITEIISTE // 94 //