SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ चतुर्थे स्कन्धे दशमः सर्गः। = // 2 // 3 // 4 // // // = = II-III AllalII AIII NIFICATTA SIHIFII-IIIFII-II-III = ततः कमलिनीभर्नुर बिम्बमदृश्यत / अस्ताचलशिरःसीम्नि शिलिन्ध्रमिव निर्गमम् विष्वक तिमिरपूरेण व्याप्यमाने महीतले / आरोहन पक्षिणः शीघ्र शिखराणि महीरुहाम् एकाकारं जगत् कुर्वन् उच्चनीचविभेदभित् / मुमूर्छ महिमा कामं तमिस्रस्य कलेरिव अचक्षुर्विषया लोका बभूवुश्चतुरिन्द्रियाः / शब्दगन्धरसस्पर्शः पदार्थाः प्रचकासिरे लब्ध्वा तिमिरसङ्कीर्णे तमित्थं विजने वने / निःशङ्कः स्वैरमारेमे कलिश्छलयितुं नलम् कनु संप्रति गन्तव्यं गमनीयाः कथं दिनाः। नृणां हि धनहीनानां न साध्यं न च साधनम् हसन्ति दुर्जनाः स्वैरमगीकुर्वन्ति वैरिणः / सहायाश्च विमुश्चन्ति नरं धनविवर्जितम् निर्धनस्य न साहाय्यं निःसहायस्य लाघवम् / लघीयसः सदाऽवज्ञाऽवज्ञातः किं नु जीवितम् ? अद्य सम्यक समेष्यन्ति सततं शत्रवो मयि / छिद्रान्वेषणमेवैकं कर्त्तव्यं शत्रुसर्पयोः बलवानपि दुःशीलैरेकाकी काकवृत्तिभिः। न तैः सह सभार्योऽहं सकामं कर्तुमीश्वरः अद्यैव रक्षणीया मे नाभविष्यद् यदि प्रिया / अहरिष्यन् किरातास्ते मदीयं तत् कथं रथम् ? विनापि शत्रुसम्पातं दुर्वहा पथि भीमजा / नैवास्याः सुकुमाराङ्ग्याः क्षमोऽहं दुःखमीक्षितुम् = = // 7 // // 8 // = // 10 // // 12 // ==
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy