________________ // 53 // चतुर्वे स्कन्धे HIST मर्गः 9 // 54 // श्वशुरगृहनिवासाय दमयन्त्याः प्रेरणा॥ // 9 // विवरमिदमुपेत्य सांप्रतं ते निजविकृति त्वयि देव ! मा स्म कुर्वन् ग्रहबलमधुना न तेऽनुकूलं व्यसनमिदं च दुनोति देव ! यावत् / श्वशुरकुलमलङ्करुष्व तावत् यदि मयि नाथ! विधित्सति प्रसादम् धवलगृहगतोऽपि विश्ववन्धं प्रियमतिथिं च भवन्तमभ्युपेत्य / सुखमिव लभतां स तीर्थयात्राफलमधुना वि भीमभूमिपाल: इति कथमपि भीमभूपपुत्र्या रतिसमयासमयज्ञयार्थ्यमानः / अनभिमतपराश्रयानुरोधो नृपतिलकः सपदि त्रपामवाप अस्त्वेवमेव ननु देवि ! यदात्थ तथ्यमित्थं वदन् दयितया सह सार्वभौमः / स प्राप तापशमनं कमठोपमानो माजोनतस्ततपयः प्रसरं सरस्तव तस्मिन् पीत्वा दलविनिहितं कान्तयैवोपनीतं शीतं वारि स्फुटपुटकिनीपुष्पगन्धानुविद्धम् / वृत्तिं चक्रे तटतरुफलैराम्रजम्बीरमुख्यैः साक्षीकुर्वन् वनपरिसरं सर्वतो वैरसेनिः इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे नवमः सर्गः // 9 // IISI OIII-IIIIIIIIIIII allIlal // 57 // II // 58 // IASFII