SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ IIIIEI AISilla III-III NIII ISTIA पकस्वेदश्रमपरिगता मूर्तयो यत्सुराणां यच्चैत्यानामथ विटपिना निर्निमितं निपातः। यत्पर्यस्तो गृहिषु विधिवत्पूज्यपूजाक्रमो वा लम्धः सर्वैतुभिरभितो यद्विपर्यासभावः // 70 // भम्भारावा यदपि रजनौ दर्दुराणां शिखा यत् सत्वा मत्स्यादिव समभवन् जातिमांसाशिनो यत् / मिथ्यादृष्टिः समजनि जनो यत्कुलिङ्गानुरोधा राजद्वारे यदपि सततं दुर्जनानां प्रवेशः // 71 / / ज्वालाधूमप्रभृप्ति सहसा यच्च वहिं विनापि त्रासोत्कम्पास्तुरगकरिणः कारणं यच्च मुक्त्वा / यद् दृश्यन्ते मदजलजुषो हस्तिनीनां कपोला यद् भज्यन्ते सपदि चमरच्छत्रदण्डाः स्वयं च // 72 // त्यक्त्वा चाझामपि बहुविधा स्वस्वभावव्यवस्था इत्थं विश्वं सकलमधुना यत्परावृत्तमेतत् / अद्य श्वो वा नृपतितिलकं पूर्वमुच्छिद्य वेगादन्यः कश्चिद् भवति भुवने भूपतिनिश्चितं तत् / / 73 / / नवभिः कुलकम्।। शय्यासनेषु गुणजालकमौर्णनाभं शब्दायितं च गृहमूर्धनि संहतेऽपि / ध्यामत्विषः सशलभाश्च निशि प्रदीपा निर्वासनं तव वदन्ति सह प्रियेण // 74 // हारस्रजश्च तव यद्विरलीभवन्ति सीमन्तपतिरपि यन्मिलति प्रकामम् / तद् मन्यते तव निरन्तरदुःखदायी वैदर्मि! कान्तविरहोऽपि भविष्यतीति // 75 / / एवं विचारचतुरे ! सुविचिन्त्य चित्ते कालोचितं रचयितुं तव युक्तमद्य / वैदर्भि ! दर्भमुखतीक्ष्णमतिस्त्वमेका छेकाऽसि किं शिथिलतामवले ! विभर्षि ?
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy