________________ चतु स्कन्धे सर्गः६ दमयन्त्यै कैशिन्या: सान्त्वनम् // // 83 // BIBRII SHIRTHILGA TERI ATHI WIKIIC IBi अन्तरेण समावेश व्यन्तराणां दुरात्मनाम् / कथमित्थं भवेद् मुग्धे ! यदि शिक्ष्यः स्वयं नलः // 61 // अतिक्रामति किं सत्यं विनयं वाति वर्तते / परित्यजति वा प्रीति कल्पान्तेऽपि कथं नला? // 62 // नास्त्येव हि नलो राजा स भवत्प्राणवल्लभः / इदं तद्पमास्थाय भूतं किश्चिद् विजृम्भते // 63 // न नाम मङ्गलैरुक्तैर्माणल्यमुपजायते / अपि कर्णकटु स्पष्टं शृणु पथ्यं वचो मम // 64 // यद् मार्तण्डः परिधिवलयी व्योम्नि सूर्यद्वयं यद् रात्रौ चेन्द्रं धनुरपि च यत् यच्च युद्धं ग्रहाणां / उल्कापाता यदपि बहवः क्रूरकेतूदयो वा कालातीतौ यदपि रजनी भत्तुरस्तोदयौ च // 65 // यद् दिग्दाहो यदपि च रजोवृष्टिभूमिप्रकम्पौ यद्गान्धर्व व्रजति नगरं गोचरं लोचनानाम् / यच्चात्यन्तप्रसवविकृतिः कालतो रूपतो वा यच्चाकाले किल जलधरो वारि वर्षयभीक्ष्णम् // 66 // ग्रामे वन्या वनवि च यद् ग्रामसत्त्वाः प्रवृत्ताः क्रूराक्रन्दं खरनखरिणो यच्च मिश्रं रसन्ति / दुर्गा नीडं मधु च सरघासम्भवं मन्दिरे यत् यत्सञ्जातः स्थलजलनभश्चारिणां स्थानभेदः // 67 // चक्राकारं यदपि गगने गृध्रकका भजन्ते काकमाया यदपि विहगा हर्म्यमन्तर्विशन्ति / यद् दृश्यन्ते सुरतनिरताः श्वेतवर्णाश्च काका यत्सवानामतिविषयिणामन्ययोनौ प्रवृत्तिः // 68 // पुष्पे पुष्पं फलमपि फले पल्लवे पल्लवं यत् यच्चात्यन्तं फलसुमनां कापि चित्रा समृद्धिः। कन्दोद्भदो यदपि विपिने हस्तपादादितुल्यः सस्यानां वा परिणमति यद् मासरूपेण पाकः // 69 / / IASIAFISHISIAN SEEK