SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ चतुर्थे स्कन्धे सर्ग:५ वाग्द्यूतस्य दोषाणि॥ = // 8 // = IIIIII-IISHIMIRIDIURI IIsle अथ मातुः सरन् दास्यं क्रोधान्धो गरुडः क्रमात् / सर्पान् व्यापादयामास पातालानि प्रकम्पयन् // 83 // ततः कर्तुं कुलत्राणं प्राहिणोत् तस्य वासुकिः / मनोझं सर्पमेकैकं वध्यं नित्यकरप्रदः // 84 // इत्थं विशसतस्तस्य सर्पान् मलयपर्वते / कालक्रमात् समुत्तस्थुः स्थूलकूटाः फणाभृताम् // 85 // कदाचित् तत्र संप्राप्तो मलयेन्द्रसुतावरः / ज्ञात्वा तत्सर्परक्षार्थ तस्थौ जीमूतवाहनः // 86 // स च वध्यशिलासुप्तः शङ्खचूडस्य वारके / गरुडेना जग्धः सन् परिवृत्य ददौ वपुः // 87 // संप्राप्ते शङ्खचूडे च ददति स्वं वपुः पुरः / जीमूतवाहनं ज्ञात्वा तुष्टः सत्वेन पक्षिराट् // 88 // सर्परक्षावरं तस्मै वाञ्छितं गरुडो ददौ / यथावस्थितदेहं च तं चक्रे विनतासुतः // 89 // तदतिविषममेतत् कुत्सितं छद्ममूलं सुजनहृदयशून्यं कीर्तिकूलकषं च / परिहर नरदेव ! द्यूतमुद्भूतपापं परिचिनु दुरवापं निर्मलं धर्मकर्म // 9 // अवन्ध्यविज्ञप्तिरियं सदैव प्रसादपात्रं तव भीमपुत्री / तदार्यपुत्र ! क्रियता मदुक्तमुक्त्वेति सा तत्पदयोः पपात // 91 // तुभ्यं शपे यदि दुरोदरमाचरामि स्वास्थ्यं भज स्वहृदि भीरु ! भयं विहाय / इत्थं त्रपापरवशो नृपतिर्बुवाणः प्राणेश्वरीं सरभसं भृशमुच्चकर्ष // 92 // कि शर्मणापि मम तेन न यत् प्रियं ते भूयाच दुःखमपि तद् मम यत् तवेष्टम् / 115ISHI-IIIIIIIIIII =
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy