SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ IIIIIIIII AHINIIIII पण्याङ्गनेव निर्वीडा द्यूतक्रीडा धनापहा / न ननकरणी कस्य परिणामे नरेश्वर ! // 41 // इमा सजनविद्वेष्यां भजतामयशस्करीम् / धनस्य प्रथमा हानिर्द्वितीया स्वसुखस्य च // 42 // न काले भोजनं निद्रा न काले देवतार्चनम् / न काले स्नानदानाचं कितवस्य कदाचन // 43 // प्रभवन्ति भृशं रोगाः शीघ्र कुप्यन्ति देवताः / भ्रश्यन्ति सर्वकार्याणि द्यूतासक्तस्य देहिनः // 44 // स्वजना दूरतो यान्ति, न विश्वसिति कोऽपि हि / लक्ष्मीविलीयते शीघ्रं, द्यूतव्यसनशीलिनः // 46 // न तिष्ठति विना क्रीडां जितमेव हि पश्यति / पराजितस्त्वनिर्वाच्यं लभते दुःखमाक्षिकः / // 45 // कपिकच्छू करद्वन्द्वे दृशौ मरुमरीचिका / दवानिमर्मरो देहं द्यूतकारस्य नोज्झति // 47 // उत्खातनयनघ्राणाश्छिन्नकर्णकरक्रमाः। अंकिता इव दृश्यन्ते द्यूतदासा नराधमाः // 48 // अकीर्त्या मलिनं पूर्व जायते सकलं कुलम् / निर्जितस्य परैः पश्चात् कितवस्य मुखं पुन: // 49 // एकशृङ्खलितान्येव व्यसनानि परस्परम् / एकमङ्गीकृतं येन स सर्वैरमिगम्यते // 50 // वरं हालाहलं भुक्तं भृगुपातः कृतो वरम् / वरं वहिप्रवेशो वा नतु द्यूतं निषेवितम् आस्तां परजनैः सार्द्ध द्वयोन्धिवयोरपि / विभेदकारिणी क्रीडा कुभार्येव परस्परम् // 52 // धूयते हि पुराणेषु भगिन्योरुभयोरपि / कद्रूविनतयोरासीद् वाग्द्यूतमपि दारुणम् तथाहि द्वे अपि प्रातः कदाचिद् गन्धमादने / ज्योतिष्कशक्रमुद्यन्तं पश्यतः स्म दिवाकरम् // 54 // II AISFIISIFII IISTSle II AISII
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy