________________ चतुर्थे स्कन्धे सर्गः४ नलस्य उत्कर्षः कलिं ज्वालयति // DISISTERISTICATI-RINITII ISIP रेजे राजकुलं ताभ्यामपत्याभ्यामहर्निशम् / व्योमेव पुष्पदन्ताभ्यां संचरझ्यामितस्ततः // 23 // तेन तेनोदयेनास्य सपत्नीकम्य भृभुजः / शुशोप कलिरत्यन्तं जलेनेव जवासकः // 24 // अथ कदाचन पान्थमनस्विनीघनमनोरथसाधनसारथिः ! पिकवचः प्रतिभागुरुराययौ रसमयः समयो मधुमाधवः // 25 // समनिशादिवसो यदि विस्तरः समहिमातपनिर्गमसङ्गमः ।उभयतस्तुलया विधृतं दधौ भुवनमाशु वसन्तमहोत्सवः // 26 // क इव नाम न संप्रति मन्यते जगदलध्यतमं स्मरशासनम् / इति विचेतुमिवावजगाहिरे वसुमतीवलयं मलयानि लाः // 27 // ज्वलयितुं हृदयानि वियोगिनां दहनसङ्गमपिङ्गमयात्मभिः / समुदितं नव चम्पककोरकैर्मकरकेतनवाणफलैरिव ॥२८॥ला श्रुतिसुखप्रदहंसकुलक्षणभ्रपरगुञ्जितकोकिलकूजितैः / हृदयवेश्मसु बालमृगीदृशां सपदि जागरितो मकरध्वजः // 29 / / किमधुना मधुनाम्नि मनोरमे रसमये समये समुदीयते / उपवने पवने हृतपल्लवे नवनवा वनवासजुपां रतिः // 30 // सह सतीभिरुपपल्लवयन्मुनीन् सह विटैर्घटय नटयोपितः / सह च पान्थवधूः पथिकबजेविरचयन्नुचितं विदधे मधुः // 31 // प्रियमाप कापि शिरसा दधती नवमालिकाकुसुमदाम हितम् / अभिसारिका चपलचित्ततया नवमालिका कुसुमदामहितम् // 32 // न कासरो लम्बतरङ्गन्तारं नकासरोलम्बतरङ्गतारम् / न कासरोलम्बतरङ्गतारं न कासरोलम्बतरङ्गतारम् रेजे स कामरसतामरसप्रसक्तप्रोद्दामदामडमरभ्रमरो वसन्तः / उत्तालजालकजटालरसालशालवाचालवालमदलालसकामतालः॥३४ तत्रैकदा सुविरचय्य वसन्तपूजां गीतात् परं सुपरितोषितगायनस्य / भैमीसखस्य सुखगोष्ठिगतस्य तस्य वैतालिका निजगदुर्दिवसावसानम् II AI AISI ASSISTANI / / 76 //