SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ FII-III AIslamII AISIINIIIATTA तथा नलमहीभुजा भुजविनिर्जितद्वेषिणा वितीर्णमखिलावनीवलयकल्पवृक्षेण च / बभूव सहसा यथा कनकभूषणानां भरैः परिश्रमपरम्परा वपुषि याचकानामपि // 31 // भैमीसख्यो निजदुहितरः प्रीतियोगं विदद्भिः पृथ्वीपालैर्ललितरचनादक्षिणैर्दाक्षिणात्यैः। श्रेष्ठैः साकं नलसहचरैः पार्थिवैः शुद्धवंशैः सम्यक्पाणिग्रहणविधिना योजिताः शीलवत्यः // 32 // स्थित्वा मासं प्रियपरिचयैरुत्सवादुत्सवेन स्वीयं देशं प्रति जिगमिषौ नैषधे राजचन्द्रे / पत्युर्गेहं प्रियदुहितरं प्रेष्यमाणां सबाष्पां प्रत्याह स्म प्रणतशिरसं साश्रुहर भीमभूपः // 33 // जानासि सर्वमपि संवृणु पुत्रि ! बाष्पं किं शिक्ष्यसे क इव नो वचनावकाशः। ब्रूमस्तथापि किमपि व्यवहारसारं चन्द्रस्य चन्दनविलेपनमाचरामः निश्छमता गृहपतौ गुरुषु प्रणामः स्नेहः कुले परिजने च महन्महत्वम् / सापत्न्यकेऽपि मृदुता प्रतिषः प्रियारौ निर्मोक्तयः प्रियसखे! च कुलाङ्गनानाम् गृहिणि वदति नम्रा पादयोर्दत्तदृष्टिः स्वयमुपचरति द्राक् दत्तशिष्टासना च / प्रथममपि न शेते तस्य जागर्ति पूर्व सुमुखि ! कुलवधूनामेष सिद्धान्तधर्मः // 36 // इत्यूचिवान् विनयिनीमनुगृह्य पुत्री जामातरं स्वयमनुव्रजति स्म धीरः / तिस्रःप्रयाणवसतीः सह संनिविश्य प्रत्याजगाम च नलानुमतः स्वदेशम् // 37 // IHIजIIEIFIIIIIIIFI
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy