________________ विवाहा एतीयस्कन्धे सर्ग: .. मिलितमिह महीपति व्रजन्तं निजपुरगोपुरवासिनं विनीतः। सकलमपि निमत्रितं वितेने सपदि विदर्भपतिविवाहसजः // 49 // इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे अष्टमः सर्गः // 8 // तृतीये स्वयम्वरस्कन्धे नवमः सर्गः। // 17 // DISISI AISITIA IIIIII प्रविश्य च प्रमोदेन जवादन्तःपुरं नृपः / सुतामातरमित्यूचे तातः स दमनस्वसुः / अयि ! प्रतीच्छ तं वीरं प्रिये ! जामातरं नलम् / यस्यानुकारकर्त्तव्ये देवानामपि कौतुकम् // 2 // नूनं नलेन जामात्रा लोकोत्तरगुणेन नः / कथकैशिकवंशोऽयमाकल्पान्तं विभूषितः // 3 // किमन्यत् तत्र ताक्षं त्रिलोकीनाथमेलके / तनया यदि जानाति विवेक्तुं वरमीदृशम् // 4 // प्राप्तकालक्रम सम्यक् शीघ्र सपरिवारया। तत् कल्याणि ! क्रियाः सर्वा वितन्यन्तामनन्तराः॥५॥ इत्युक्त्वा पुनरास्थाय स्वयमास्थानमण्डपम् / दिदेश सादरं सर्वान् कृत्येषु कुलपुत्रकान् // 6 // आकीर्णमभवत् सर्व मङ्गल्यैः संविधानकैः / व्यग्रत्वमनिशं भेजे समग्रो नगरीजनः // 7 // विधाय विधिवत् तस्या विवाहस्नानमङ्गलम् / प्रसाधिकामिरारेमे विभूषणमहोत्सवः // 8 // AIIA ISSIA III AIII II IIISIS // 67 //