________________ || AISFIANHIGHETAHINIMINS कुमारि / कुरु निःशवं मानिनि ! स्वमनीषितम् / स्वेच्छापुरस्सरोऽयं ते जनो जनकनन्दिनि! // 24 // उचितेवार्चनां कर्तुं देवेऽस्मिन् वरमालया / इति धृत्वा करे कन्यां निनायामि पुरन्दरम् // 25 // ततः सकङ्कणकाणं हस्तमुन्मुच्य हेलया / तां नलाभिमुखं यान्ती लोधाश्लिष्य भारती // 26 // यत्प्रसादादिदं सर्व ये पूज्यात्रिजगत्स्वपि / समुदाचरितुं तेभ्यः कथमित्थं प्रमाद्यसि। // 27 // इत्युक्तिकृतविश्वासा लज्जावनतकन्धरा / तेषां पपात सोत्कण्ठं चतुर्णा चरणेषु सा // 28 // प्रणमन्ती च शिष्येव स्नुषेव दुहितेव च / अदृश्यत तदा देवैर्दमयन्ती ससम्भ्रमम् // 29 // प्रणतेषु कृपालुत्वं लजालुत्वं च संसदि / श्रद्धालुत्वं सुशीलेषु प्रकृतिमहतामियम् ततः सा सर्वेदिकपालहक्तरङ्गप्रणुभया / अनीयत सरस्वत्या स्वयं नैषधसबिधौ // 31 // अथ कथमपि कम्पस्वेदरोमाञ्चजाड्यप्रभृतिमिरमिरामा काचिदन्या भवन्ती / सरमसमिव गत्वा सा नलस्योपकण्ठं स्वयमपि वरमालां कण्ठपीठे मुमोच // 32 // मसूणकनकमासि स्फारविस्तारसारे प्रतिफलितशरीरा तस्य वक्षोविमागे / शुचिविपुलगुणत्वात् क्षिप्रमन्तर्गतैव स्फुटकुसुमसमृद्धा सा विरेजे बरसक् ततस्तन्माङ्गल्याहतघनतूर्यध्वनिमरं तिरस्कुर्वन् विष्वक चलचकितचेटीश्रुतिकटुः / अकाण्डब्रह्माण्डस्फुटनघटनाक क्षितिभुजा भटक्ष्वेडानादः समजनि जनक्षोभजनका // 34 // SHIA ITI II II IST