________________ आवर्तगपतिता बलदर्पितापि न प्राप वारणवरिव निर्गमं सा इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे सप्तमः सर्गः // 7 // तृतीये स्वयम्वरस्कन्धे अष्टमः सर्गः / I Siste SIनI VII-III-IIMIHIDIHI II // 2 // // 3 // इयेष नैषध ज्ञातुं ततः सा देवसेवया / गम्यते परमं ब्रम किमनाराज्य वाङ्मयम् ? दिक्पालपरिचर्या च कल्पवल्लीव लीलया / इयं हि द्वितयी पुंसां ददाति दयितं फलम् / एतदेव हि दानाय समन्तादन्तरं तयोः / दाद् ददाति यत्पूर्वा तटस्थानां पुनः परा समृदिश्य दिशामीशान् समाधिस्था समन्ततः। चिरं चकार चाट्न चेतसा चारुहासिनी नमोऽस्तु मम युप्मभ्यं दिक्पालेभ्यो दिवानिशम् / कुमायाँ सुकुमारत्वं ययं भजत देवताः! अद्य युप्मासु रुष्टेषु यूयमेव गतिर्मम / अनविद्वेषिणां कायो वायुना हि न धार्यते सर्वकषप्रमावेषु का नाम प्रतिमल्लता / न विध्यापयितुं शक्तिस्तृणानां हि दवानलम् स्वल्पेषु भ्रूवलं ज्ञातुं बलिनां वितथा रतिः / को हि विश्वम्भरां मुक्त्वा मेरुमुबोढुमीश्वरः यद् दहन्ति न मार्तण्डा न क्षुभ्यन्ति यदब्धयः / यच्च शक्तास्तितिक्षन्ते तेनेदं वर्तते जगत DISSIATERIAIजा // 7 // // 8 // // 9 //