________________ FIRTHI ASIA IजIATEHI जाना त्यजसि यदि कदाचिद् मीरु ! मारमेनं कह तब तदानीं सुन्दरि प्राणनाथः // 14 // चिन्त्यते बत विलम्म्यते च किं लज्जया जडतया च पूर्यताम् / स्वीकुरु प्रियतमं प्रमोदतां मन्मथव सुजनच भामिनि ! इत्यनेन बहुलार्थवचिना सा मुमोह वचसा विशेषतः / वैमवाधिकतया हि लोचने नूनमन्धयति वैद्युतं महः अप्यमन्यत नलं तु दिक्पतिं दिक्पतिं च नलमप्यमन्यत / प्रत्यपचत न निवयं कचित् कीर्चनादपि बिलोकनादपि एकैकस्मिस्तत्र राग विधातुं मिन्दन बाणैः पञ्चभिः पञ्चबाणः मैमीलक्ष्ये शस्त्रसरख्या स्वकीयां सार्थीचक्रे पञ्चभावाद नलस्य // 18 // रुपबुद्धिविमवा भगवत्या प्राप भीमतनयाऽपि न मार्गम् / भीमभूमिपतिना सह सर्व व्याकुलं नृपतिमण्डलमासीत् // 19 // भूकमङ्गलमृदङ्गासहस्रं सावधानसकलस्वजनं च / गीतनृत्यरहितं हतहर्ष तत्क्षणं बत बभूव सदस्तत // 20 // स्पृश्यमानमनिलस्य तरोटेश्यमानमखिलक्षितिपालैः / भीतमीमतनया कररुद्धं न स्वयं वरणदाम रराज // 21 // कण्ठपीठगतजीवितमहं धूसरघरदलं कलयन्ती / इत्यचिन्तयदचिन्त्यचरित्रा भीमभूपतनया दयेन // 22 // एक एव स नलः किल पूर्व पत्र संप्रति कृतः पुनरेते / निर्जले कथमपि प्रतिविम्यं दृश्यते न खलु चन्द्रमसोज / // 23 // BHIA ISHI IIIIIIIISH