SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ // 4 // // 8 // DISTICISFI ISHI VIIIIIIIE नरेन्द्रकमलाधार लोकशोकमलापहम् / कमलाक्षि ! विमुच्यैनं कमलङ्कर्तुमर्हसि इत्थमुक्तवती देवीं मौनं कर्तुमजिज्ञपत् / सा लीलयैव कुर्वाणा करं कुड्मलमीलनम् पुरस्थनृपनेपथ्यसङ्काताकृतिदर्शनात् / तद्विरक्तिविदः शीघ्रं जन्या याति स च स्वयम् अभ्यधायि पुनर्देव्या पुरस्तन्वङ्गि! नन्वयम् / अङ्गाधिपतिरध्यास्ते पुरी पुष्पकरण्डिनीम मातिभिन्नेभकुम्भस्य सख्ये विक्षिप्तमौक्तिकः / अस्यासिः करकासारं कुर्वाण इव वारिदः इति स्तुतिपरा भैमीक्तरङ्गप्रणोदिता / अकाले दत्तकर्पूरा चेटी देवी न्यवारपत् उवाच वाचं पुनरेव देवता वितीर्णहर्षा विदुरां विदर्भजाम् / इमं पुरस्तक्षशिलापुरीपतिं प्रतीच्छ निर्मत्सरमुच्छलद्गुणम् शाभिधस्य धनुषः पुरुषप्रवीरः कर्णे करोति विदुषां च गुणं गुणज्ञः। एकत्र यत् पुनरयं दृढबद्धमुष्टिरन्यत्र मुक्तकर एव तदद्भुतं नः न गिरिषु न च वजे केवलं मांसमात्रे क्षिपति विभुश्यं यत् तेन लजाधिकं नः। इति दलितविपक्षाःक्ष्मातलं यान्ति नाशं समरशिरसि वाणा यस्य दण्डप्रमाणाः गुरुरिति कविसाथै रथिभिः कल्पवृक्षः स्मर इति रमणीभिरिभिर्वज्रपातः / जनक इति जनौधैर्योगिभिश्चापि नित्यं नरपतिरयमेकः स्मर्यतेऽनेकरूपः जाता जाताना // 9 // // 10 // // 11 // // 12 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy