________________ तृतीयस्कन्धे शारदा दमयन्ती परिचयं कारयति॥ सर्गः५ // 61 // काजा II II IIIIIII एतेऽपि गतनिर्वेदा विद्याधरधुरन्धराः / सन्ति वैदर्भि ! सम्भूता वैताब्यगिरिवासिनः // 21 // कुले नमिविनम्योयें पृथपत्तनसंस्थिताः / गान्धारा रौहिणेयाद्या महेन्द्रस्पर्द्धिसिद्धयः. // 22 // गन्धर्वेषु न सर्वथा तव रतिर्नागेषु रागो न ते वैलक्ष्यं बहुयक्षलक्षविषये चित्तं न दैत्येष्वपि / सामान्यस्य पिशाचभूतपल ग्वर्गस्य वार्तव का? तद् दिव्या तव सृष्टिरेव सकला नूनं न मैमि! प्रिया // 23 // अतिजरसि न सम्यग्ज्ञानविज्ञानभाजा भुजबलकलितेन व्यक्तकेलिक्रमेण / शशिमुखि ! न हृतं ते देवलोकेन चित्तं तदिह भवतु भैमि ! प्रेक्ष्यतां राजलोकः // 24 // इत्थं प्रविश्य भणिता सविलासहासं तत्तत्प्रलोभनपरायणयाऽपि देव्या / गङ्गेच देवरिषयात् क्षितिपाललोकं सोत्कण्ठमाप रभसेन विदर्भसुभ्रूः // 25 // इति श्रीमाणिक्यदेवसुरिकृते नलायने तृतीये स्वयम्वरस्कन्धे पश्चमः सर्गः // 5 // तृतीये स्वयम्वरस्कन्धे षष्ठः सर्गः / ताजावाजाबाजाISIS ततस्तामवद वाचं साचीकृतविलोचनाम् / अजिमघटनां ब्राझी घटप्रतिभटस्तनीम् अयं शशिमुखि ! श्रीमान् सूर्यवंशविभूषणः / पुरः प्रभुरयोध्याया ऋतुपर्णोऽभिधानत: // 2 // // 1 //