SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ तृतीये स्वयम्वरस्कन्धे तृतीयः सर्गः / FII ISI AIRITUATI AHIRAIANS अथ चिन्तितवान् चित्ते सहसा विस्मयाकुलः / विभाव्य तमसम्भाव्यं समाज भीमभूपतिः धन्योऽस्मि मम यस्यैते देवासुरनरोरगाः / स्वयमेव समायाताः स्वयम्वरमहोत्सवे // 2 // अहो ! सकलकन्यासु वत्सा भाग्यवती मम / यामन्वेष्टुं समाजग्मुः सर्वे भूचरखेचराः अनुरूपमिदं सर्व जातं विधिवशादिह / कथं पुनर्विधातव्यं गोत्रसङ्कीर्तनादिकम् ? // 4 // न तावत् तादृशः कोऽपि मम राज्येऽपि वर्तते / य एषां वदति स्थानमभिधानं कुलक्रमम् // 5 // अज्ञातकुलशीलं चेत् कदाचिद् घृणुते सुता / तदा कुलकलङ्को मे परेषां चापि मत्सरः तदिदानी मत्पुयर्थे निःसहायः करोमि किम् ? / अनेन हेतुना नूनं भविष्यति विडम्बना अथवा या स्वयं दत्ता देव्या च दमनेन च / यस्यास्तत् तादृशं भाले विशेषकमलौकिकम् // 8 // यजन्मनि च सा तादृक् जाता वागशरीरिणी / यस्याः स्वयम्बरे सोऽयमित्थं सुरसमागमः // 9 // तस्याः प्रभूतभाग्याया वत्सायाः पुण्यजन्मनः / भाग्याकृष्टः कथं कश्चित् साहाय्यं न करिष्यति // 10 // त्रिमिर्विशेषकम् / इत्थं चिन्ताप्रपनेऽस्मिन् जनके दमनस्वसुः। कन्याप्रवेशविष्कम्भमुपलभ्य समुत्सुकाः HIAEII II SIRIISIT TRIIIshe
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy