________________ तृतीय स्वयम्वरारम्भः // स्कन्धे सर्गः 2 // 56 // BIII-ISISEASHI AISFII AIIMS ततस्ततघनानद्धशुषिराक्षरभेदतः / पश्चशब्दसमाहारः समकालमजायत मृदङ्ग शङ्खमेरीणां झुम्बाः पणवस्य च / झल्लरीवेणुवीणानां डकाडमरचोरपि // 11 // इत्येतेषामनेकेषामन्येषामपि निर्भरः। ध्वनिर्दध्वानवाद्यानां दिक्निकुञ्जोदरम्भरिः // 12 // प्रतिमचं प्रतिद्वारं प्रतिभूपं प्रतिक्षणम् / तत्राभवन् विचित्राणि प्रेक्षणीयानि लक्षशः // 13 // न दूतानां न सूतानां न द्विजानां न वेत्रिणाम् / न तत्र वारनारीणामपि पारं ययौ जनः // 14 // अथाऽऽजगाम स श्रीमान् क्रौञ्चकणनिषूदनः / निःशेषनृपसौभाग्यगर्वसर्वषो नलः // 15 // प्रतीहारगणैरीशः स निर्दिष्टं पुरःसरैः / आरुगेह महामश्च कैलासमिव शङ्करः // 16 // तस्य सिंहासन हैमं समन्तादधितस्थुषः / बभासिरे महीपालाः परे भूमिगता इव // 17 // तावदासीत् प्रभा तेषां यावद् नायाति नैषधः / आगतश्च नलः श्रीमान् नष्टं कान्त्या च भूभुजाम् // 18 // बलिनाऽपि प्रयत्नेन प्रकृति नुगम्यते / न हंसलीलया याति स्पर्द्धमानोऽपि टिट्टिभः / // 19 // मुक्तास्रगनायकेनेव धिष्ण्यपतिरिवेन्दुना / अशोभत सभा तेन भूपालतिलकेन सा // 20 // इत्थं स्वयम्वरारम्भे वर्तमाने मनोहरे / चिन्तयाश्चक्रिरे चित्ते शक्रमुख्या दिवौकसः // 21 // अहो ! नलप्रिया भैमी देवानपि न वाञ्छति / विकुर्मस्तद् वयं तावद् नलरूपं कथं न हि ? // 22 // वाला नलभ्रमेणापि सा कदाचिद् वृणीत नः / इति सश्चिन्त्य शक्राद्या नलरूपं विचक्रिरे // 23 // AIILAIFIIIIIIIIIII