SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ IISTEle I ASHIGATIAHINITIAT इत्थं प्रणम्य पुरतः पुरुषोत्तमं तं शंभु जगत्त्रयगुरुं परमेष्ठिनं च / शृङ्गारमारभत कर्तुमनन्तरं स श्रीमान् स्वयम्वरसमाजमुपैतु काम: // 22 // इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे प्रथमः सर्गः // 1 // तृतीये स्वयम्वरस्कन्धे द्वितीयः सर्गः।। अथाऽऽजग्मुर्जगन्मौलिमण्डनाः कुण्डिनान्तरे / स्वयम्वरं स्वयं वीरा महीभाजो महाभुजाः प्राक्प्रत्यगुदग्पाचां दिग्मुखानामधीश्वराः / तत्रामिलन् महीपालास्तले रविरथस्य ये // 2 // वरीतुं कुलजाः केऽपि हर्तुं धीरोद्धताः परे / द्रष्टुमन्ये महासत्वाः स्पृहयन्ति स्म भीमजाम् // 3 // अकामुको न कोऽप्यासीद् नाभूत् कश्चिदनागतः / कतमोऽपि तदा तत्र न चाभवदनीश्वरः // 4 // चकासामासिरे तुङ्गा मञ्चाः काञ्चननिर्मिताः / अपि चेतसि कुर्वाणा विस्मयं विश्वकर्मणः // 5 // रत्नसिंहासनाऽऽसीना मश्चेषु पृथिवीभुजः। गिरीन्द्रशिखरस्थानां चक्रुः केसरिणां श्रियम् / सन्ध्याश्रसन्निभैश्छन्नं वितानैर्निखिलं नभः / नृपाणामनुरागस्य पटलैरिव देहिभिः सुवर्णाण्डकसङ्काशैः सुवर्णकलशैस्तदा / बभावुदितबालार्कसहस्रमिव पुष्करम् // 8 // दन्दबमानकर्पूरकृष्णागरुसमुद्भवैः / रुद्धा दश दिशो धूपैरकालजलदैरिव // 9 // IASI STI ATHISEII I
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy