________________ द्वितीयस्कन्धे सर्गः१५ IST दमयन्त्या विलापः। // 23 // // 24 // // 52 // II // 25 // III AISII IIIGANI - III ATAR इति वदनसमक्षं भीमभूपालपुत्रीं कलमृदुविलपन्तीं वीक्ष्य विक्षिप्तचित्तः / स सपदि सुरदत्यं तत्र विस्मृत्य वीरः सुललितमिदमूचे वाक्यमाश्वासनाय विरम विरम कान्ते ! न प्रिये ! रोदितव्यं मलिनयति मुखं ते हन्त ! बाप्पाम्बुपूरः / अयि ! कथय किमर्थ धार्यते देवि ! दुःखं विलुठति चरणान्ते नन्वयं नैषधस्ते सफलय मम शीघ्र देवि ! सिंहासनार्द्ध ननु सुमुखि ! मदीयोत्सङ्गमङ्गीकुरुष्व / अहह ! किमिदमुक्तं क्षम्यतां वाक्यमेतत् तव खलु विपुलं मे वक्ष एवासनं यत् इत्थं वदन् विपुलमन्मथमन्थराणि वाक्यानि कानिचन तां प्रति राजसिंहः / स स्वं विवेद पुनरेव हि देवतं योगीव कालवशवृत्तसमाधिभङ्गः अहह ! बत मयाऽऽत्मा किं प्रकाशीकृतोऽयं ? किमिव स मम वक्ता दूषणं देवराजः / न कृतममरकृत्यं खेदिता राजपुत्री द्वयमपि हि विनष्टं वश्चितो वञ्चितोऽस्मि स्खलितमिह यदेतद् यत्नभाजोऽपि जातं ददति मम न तस्मिन् दूषणं लोकपालः / कथमनुचितवादी रञ्जनीयो जनोऽयं ? स हि सततमतूर्य नर्चितुं वेत्ति सम्यक इति तमथ समन्ताच्छोचमानं नलोऽयं ध्रुवमिति दमयन्ती चेतसा चिन्तयन्ती / व्यवहितसुरनाथप्रार्थनातकशङ्का सपदि विपुललज्जावारिराशौ ममज // 26 // // 27 // // 28 // IIIIIIIII // 29 // 52 //