SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ FI IIANIASIA II II AISE बलं बुद्धिर्वयस्तेजक देवानां क भूस्पृशाम् ? / उभयेषां क संयोगस्तेषां रत्नाश्मनामिव ? // 32 // अनभ्यस्तश्च मर्त्यानां त्रिदशावर्जनक्रमः / किं हि ग्रामीणलोकानां गजारोहणकौशलम् ? पुरस्त्रिदशकन्यानां वराकी कैव मानुषी ? / सत्यां बकुलमालाय का लीला कुञ्जकस्रजः // 34 // तस्मात् किञ्चिद् यदमिरुचितं तत् प्रजल्पन्तु देवा न व्याषिद्धः खलु परिजने स्वामिनः कामचारः। तेषु प्रेम्णा क्षममनुचितं नैव भृत्यस्य कत्तुं सिंहाश्लेषं किल कलयितुं को मृगस्याधिकारः 1 // 35 // प्रतिमागतानिह जगत्पितामहान् प्रणमामि यानहमहर्निशं किल / मम किं त एव किमतः परेण वा न हि नाम देवचरितं विचार्यते // 36 // स्वयम्वरविधिः स मे गुरुजनैः प्रसादीकृतो न हि त्वनुगतः स्फुटं निजकुलक्रमातिक्रमः। इतो विनयरक्षणं दिविषदामितः प्रार्थना किमत्र वद साम्प्रतं त्वमपि देहि शिक्षा मम // 37 // बाला सम्यक् प्रतिगिरमहं तेषु दातुं न शक्ता तद् दाक्षिण्यं किमपि गणयन् मामकीनं त्वमेव / अस्यै पूज्यान त्रिभुवनपतीन् रक्ष नीचस्पृहायै मा भूद् वीर! त्वयि सति सतां कोऽपि लोकापवादः॥ 38 // देया सम्यक सुमतिरुभयोरन्तरं रक्षणीयं सोढव्यं च स्खलितमखिलं मूढबुद्धेर्जनस्य / चिन्त्या कीर्तिमनसि महती प्रेम सर्वत्र धार्य धर्मः सोऽयं जगति सकलः शाश्वतः सज्जनानाम् // 39 // इत्थं यतो नल उदेति तदेव सेव्यं सश्चिन्त्य सा हृदि तमेव विबोध्य दूतम् /
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy