________________ दमयन्त्या द्वितीयस्दान्धे सर्मः११ तारानाथः स तव यशसा राशिरेतेन शुभ्रः सत्यं कोऽपि त्वमसि भुवने देवता देवतानाम् // 23 // इति किल नलबुद्धिं तत्र सङ्कल्प्य पूर्व पुनरपि च महिम्ना देवमाशङ्कमाना / तमनु बहुपमाषे भूरि निर्मिनभावा किमपि किमपि मैमी चाटुगÉर्वचोमिः // 24 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे दशमः सर्गः॥१०॥ देवड्ते विनमः॥ // 44 // द्वितीये दूत्यस्कन्धे एकादशः सर्गः। आता ISIESTIGATIAFINISHITI IASI ASIATTISIII) तत् तस्या ललितं स्निग्धं विनीतं सरसं मृदु / अनुरूपं शरीरस्य वचोऽबुध्यत नैषधः सुधा मधु सुधा सीधु मुधा दुग्धं मुधा सुधा / मुधा वेणुर्मुधा वीणा दमयन्तीगिरां पुरः तैस्तैः स्तुतिपदेस्तस्याः क्लिमोऽपि न चचाल सः। आक्षिप्तः सिन्धुकल्लोलेवेलन्धर इवाचलः स शक्रबद्धः संप्राप्य सपयाँ प्रियया कृताम् / आससादासन हैम सवितेवोदयाचलम् स प्रतिश्रुतमेवायं धर्मवीरः स्मरन् हृदि / विनितस्मरावेशः प्रत्युवाच नृपात्मजाम् अलं कृत्वा वृथाऽऽयासं सुस्थिता भव सुन्दरि! / भूतरूपैव नः पूजा विरमातिथिवत्सले! सफलं यद् विधातव्यं दूत्यं नः कमलानने ! / तदेव महदस्माकमातिध्यं हि भविष्यति // 3 // // 4 // // 44 //