SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ A SIBHIDISHI II MISHIDIHIFIESI I अध्यासीनेन नश्चित्तं प्रथम दर्शनादपि / क्षेत्रकालाईमेतद् मे कथं नासनमास्यते ! अन्यतोऽपि यिथासायां कर्तव्ये सुमहत्यपि / अनर्हेऽपि प्रदेशेऽस्मिन् हन्त ? विश्रम्यतां क्षणम् // 14 // उपरोधेन कस्यापि महार्ण्यमपि दीयते / तद् नः परिचयं दातुं कुतः कृपणता तब ? शिरीषसुकुमारौ ते चरणौ निर्दयं मनः / अद्यापि हि कियद् दूरं कदर्थयितुमिच्छसि ? // 16 // कस्मिन् देशेऽधुना ध्वान्तं ? कुत्र चन्द्रोदयोऽधुना ? / यतस्त्वं विनिवृत्तोऽसि यत्र त्वं वा यियाससि // 17 // धन्यास्ते मातृकावर्णा यैर्नाम तव निर्मितम् / तत्कर्णाभरणीकत्तुं कस्येह न हि कौतुकम् ? // 18 // सूचयन्ति निमित्तानि न पुनर्भाग्यनिश्चयः / कस्याप्यत्रातिथिस्त्वं यत् किं वा व्यर्थमनोरथैः // 19 // न प्रज्वलन् हुतवहः किमु लचितोऽयं ? स्थाने यदत्र विषमे विहितः प्रवेशः। एतच्च साहसमियं च तनुः प्रशान्ता किं तत् प्रयासफलमित्यहह ! भ्रमो मे ? // 20 // पुंनाममिः शिशुमिरप्यविभाव्यमेतत् स्थानं धुवं त्वमसि नः सुकृतैः प्रपन्नः / यद् रक्षकैर्न कलितोऽसि निशातशत्रैदृष्टोऽसि यन्मदनसुन्दर ! लोचनाभ्याम् // 21 // पातालभूतलदिवामपि हि त्रयाणां धन्यं तदत्र भुवनं तव यत्र जन्म / मध्ये सुरासुरनरोरगसानवानां सा जातिरत्र जयिनी तव यत्र जन्म // 22 // यश्वण्डांशुः स खलु निखिलस्त्वत्प्रतापस्तदुप्णः कायच्छाया स तव नियतं तेन कामोऽप्यनङ्गः। IIMIERIFISSIFII-III
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy