SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ - 4.ISSIESTAIAIIIII16 यदि भवति सहस्रं शक्रवल्लोचनानां न च भवति निमेषस्यान्तरायः कदाचित् / निरवधि च नृणां चेद् जायते जीवितव्यं तदपि क इह भैमी प्रेक्ष्य पारं प्रयाति ? स्वामिन् ! काम ! नमोऽस्तु ते कुरु कृपां केयं पुरो दृश्यते ? सत्यं हि किमत्र मीमतनया हा हा ! हतोऽस्मि ध्रुवम् / एतस्याः कुलशीलरूपविभवं ताहग् मयि प्रेम च प्रत्यक्षं परिभाव्य हन्त ! भविता का नाम या मे गतिः // 7 // इत्थं तस्मिन् मनसि वदति स्वैरसङ्कल्पितानि प्रत्यासनव्यवहितरुचौ भूरि भूपालचन्द्रे / दायातप्रियपरिचयप्रेरणायेव मैम्याः स्पन्दं प्रापञ्चकितशफरीचञ्चलं वामचक्षुः / // 8 // दृष्ट्वा तां च प्रकटममुना लोचनागोचरेण प्रत्यग्रोऽभूत् पुलकविभवः कोऽपि तस्याः सखीनाम् / आलीढानां मलयमरुता माधवीनां लतानां सर्वाङ्गीणः स्वयमिव भृशं पल्लवोल्लासमावः // 9 // अथ कथमपि सनिगृह्य कम्पं नृपतिलकः सहसा बभूव दृश्यः। क्षितिपतिदुहितुः सखीसमाजे नव इव कैरविणीवने शशाङ्क: // 10 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे नवमः सर्गः // 9 // SIBISII-IIIII-II-III
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy