SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ द्वितीयस्कन्धे सर्गः८ // 3 // // 4 // दिक्पालप कार्यार्थिनः नलस्य कुण्डिनपुरप्रवेशः॥ // 41 // IIIIIIIII-IIIIIIII-III वैदाः प्राभृतीक रत्नाभरणसङ्करम् / स प्रेषीत् मन्त्रिणं मुखं पुष्कराक्षपुरस्सरम् स्वयं तदागमापेक्षी प्रासादशिग्वरस्थितः / ददर्श कुण्डिनोद्देशान् स प्रवेशविनिर्गमान् श्रुतशीलमपि प्रायो न पप्रच्छ विशारदम् / ददर्श तस्य कृत्यस्य निर्णय नैषधः स्वयम् वैदर्भीदत्तशृङ्गारैरन्यरूप इवागतः / सोऽपि प्रणम्य मुञ्जस्तं भावार्थझं व्यजिज्ञपत् स्वामिन्नुल्लछिन्तद्वारं बहिःस्थितपरिच्छदम् / केशिनी सन्मुखायाता चन्द्रशाला निनाय माम् त्वत्प्रीत्या गुर्वनुज्ञातस्फुटमद्दर्शनाऽपि सा / तिरस्कृतैव वैदर्भी मत्प्रणामममन्यत वज्र वैडूर्यगल्वर्ककर्केतनगुणानपि / प्रशशंस मुहुस्तेषां खचितं ग्रथितं च तत् पप्रच्छ मणिकारं च तेषां घट्टन कारणम् / अदर्शयत् सखीनां च पर्यधत्त च तत्क्षणम् लब्धसर्वाङ्गशृङ्गारः प्रदत्तनरवाहनः / विसृष्टश्चास्मि केशिन्या विहितावर्जनः स्वयम् मयि चोत्थितमात्रेऽपि तत्सखीनां जजृम्भिरे / निरस्तप्रतिसीराणां नाना मङ्गलगीतयः अथान्तर्धानमाधाय स्वेच्छासङ्कल्पसंभवम् / प्रचचाल स दिक्पाल कार्यार्थी कुण्डिनं प्रति अदृश्यमूर्तिना तेन पुरं प्रविशता सता / महाबलेन वैदाः प्राणरूपायितं स्फुटम् स्वयम्बरसमायातक्ष्मापालकुलसङ्कुले / न सेहे सहसा गन्तुं नलः सोत्कोऽपि तत्पुरे अभ्रंलिहमहाशुभ्रवलीकवलभीशतम् / सामन्तसङ्कलद्वारं नृपवेश्म स दृष्टवान् IIII II // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // SHIRIFII // 16 // // 41 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy