________________ // 13 // // 14 // = = IIIIII-IIIIIPISIS = मनोवाक्कर्माणि कचिदपि न भिन्नानि महतामतः पर्याप्तं नस्तव नृपगुरोः सूनृतगिरा इत्थं वदन् संभृतमीमवाक्यो यथोचिताभिः प्रतिपत्तिभिस्सः / कुमारसेनापतिमत्रिमुख्यानावर्जयामास कृतप्रणामान् मध्याहसान्ध्यविधिरस्ति समीपवर्ती खेदं श्लथीकुरुत तद् भवनं व्रजामः। इत्थं वदंस्तदनु भीमनृपः प्रतस्थे मुक्त्वोपचारपुरुषान् तदुपासनार्थम् भैम्या स्वयं विरचितां निषधेशहेतोर्नीत्वा नवां रसवतीमवरोधवध्वः / अभ्याययुद्धतमनन्तरमुत्तरीयप्रच्छादिताः पटलिकाः शतशो वहन्त्यः तासामदत्त निजदर्शनमेव वीरः सन्मानदानसदृशं सचिवैविधाप्य / तैस्तैः समं स बुभुजे भुजनिर्जितारिस्तारापतिप्रतिमनिर्मलरम्यवक्त्र: इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये इत्यस्कन्धे सप्तमः सर्गः // 7 // द्वितीये दूत्यस्कन्धे अष्टमः सर्गः। अथ विश्वजनीनेन प्रतिज्ञाभारवाहिना / विश्रान्तिस्थानक मेने वैदर्भीमुखदर्शनम् श्रेष्ठं चेत् सफलीकुर्याद् दौत्यं मम नृपात्मजा / इत्यन्तश्चिन्तया तस्य देवार्थः स्वार्थतां ययौ // 17 // //