SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ द्वितीयस्कन्धे सर्गः 7 II III नलभीमयोः समागमः॥ // 40 // II-III भूपस्य तस्य विरहज्वरदाघहारिश्रीखण्डकुण्डमिव कुण्डिनमाविरासीत् प्रौढप्रासादशैलं नवधवलचलत्केतुकल्लोलमालं निर्घोषव्याप्तविश्वं जननयनमनोविस्मयानन्दभूतम् / भूरिस्त्रीपुंसरत्नं किमपि कमलयाऽध्यासितं भीमपुज्या विष्वक्सेनः स पश्यन् सुरप्रणिधिममुं प्राप किश्चित् प्रमोदम् // 7 // भो भोः पौरजनाः ! समग्रनगरे पुष्पोत्करः कीर्यतां वध्यन्तां मणितोरणानि रभसा/क्रियन्तां ध्वजाः / सिच्यन्तां घुसृणच्छटाभिरभितो मार्गा वितानावृताः प्राप्तो येन किलाद्य मूर्त्तमदनो देवः स्वयं नैषधः // 8 // सामन्ताः! सह सन्निधत्त सहसा भोः! मन्त्रिणस्त्वर्यतां देवो भीमनरेश्वरः स्वयमयं देवं नलं द्रक्ष्यति / नेदीयस्यथ भोजराजनगरे तारप्लुतं जल्पतां इत्यश्रूयत निर्भर नलबलेराघोषणा वेत्रिणाम् // 9 // ततः किश्चित् कालाद् नलनृपमुपेयाय नृपतिर्नभश्छत्रच्छन्नं विदधदधिरूढः करिकरम् / पठद्भिर्बन्दीन्द्रः कमलनयनः कुण्डिनपतिः कुमारैः सानन्दैदमदमनदान्तैः परिवृतः // 10 // अभ्युत्थानपरौ परस्परमथो दृक्पानमात्रे पथि द्वावाश्लिष्य दृढं क्रमादभिमुखौ सिंहासने सुस्थितौ / क्षेमप्रश्नविधानपूर्वकमुभावन्योन्यसंदर्शिनौ सूर्याचन्द्रमसोः श्रियं जगृहतुर्जामित्रमैत्रीभवाम् श्रीमीमो निषधेश्वरं प्रति ततः प्रोवाच वाचं मितां दिष्ट्या संप्रति सुप्रभातमभवद् जाते कृतार्थे दृशौ / कीर्त्या सर्वगतोऽपि विश्वविजयी येनोत्सवे ईदृशे इक्ष्वाकूद्भववीरसेनतनयो वीरः स्वयं प्राप्तवान् // 12 // ततोऽवोचद् वाचं नलनरपतिर्भीमनृपति महाराज ! प्रेयस्तव परिचयात् नः किमपरम् / HELATEIN A MINISA ANI - I IIIII // 40 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy