________________ I AISHI ASIA ISHITABEINISFlassle उपायानां भ्रंशात् निरवधिनिरालम्बमचिरादहो! चिन्तारूढं कथमिदमिति भ्राम्यति मनः // 31 // इत्थं किञ्चित् कलितकरुणाकामकौलीनलज्जं भूयो भूयो मनसि विमृशन् भूमिपालप्रदीपः। ईषत्कालं कथमपि चिराद् मीलिताक्षः प्रपेदे निद्रानाशं दिवसवदने किन्नरद्वन्द्वगीतैः // 32 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये इत्यस्कन्धे षष्ठः सर्गः // 6 // 9. द्वितीये दूत्यस्कन्धे सप्तमः सर्गः / ISISGI ISI ETHI-III-ISIFIYE सारिशतः स प्रमाते महाप्राज्ञः प्रतिज्ञा हदि चिन्तयन् आसीत् कार्याय देवानां कुण्डिनं गन्तुमुत्सुकः // 1 // कृतप्रभातकृत्येन तेन द्रष्टुं समीहितः / उपतस्थे प्रयाणोवीं पुष्कराक्षः सकिन्नरः // 2 // स तस्मै दत्तसारथ्यः पृथ्वीपतिशतावृतः / सहस्रतुरगोद्वाह्यं प्रतस्थे रथमास्थितः विनिडुतविषादस्य सविशेष प्रसेदुषः / आसन् पथि कथास्तास्ताः पुष्कराक्षादिभिः समम् // 4 // एतानि तानि वरदातटमुत्तरेण प्रासादशृङ्गमिलितारुणमण्डलानि / सर्वत्र दर्भरहितस्य विदर्भनाम्नो देशस्य देव ! नगराणि महागुरूणि एतच भूतिलक ! भीमनरेश्वरस्य श्रीपत्तनं तदिति जल्पति पुष्कराक्षे /