________________ // 17 // // 18 // // 19 // 4-ISI AII-IIIIIsle // 20 // अर्घ दत्त्वा नृपचरणयोर्नीलनेत्रद्वयेन प्रोचे तच्च स्फुटकलरवं किन्नरद्वन्द्वमीरक धनुरनुभववर्ज बद्धमुष्टित्वमेकं परगुणहरणं वा यस्य दृष्टं न भूयः / जयति विजयवीरो बीरसेनस्य वंशे स जगति नलमामा निर्मलः सार्वभौमः सार्वभौम ! तव वर्णनाविधौ धूनयन्ति सुधियः शिरांसि यत् / तद् ध्रुवं निविडयन्ति कर्णयोस्तावकीनगुणपूर्णमान्तरम् इत्थं बुवाणमथ तन्मथितारिपक्षः पक्षान्तचन्द्रवदनो मदनोपमाङ्गः / मार्गश्रमापनयनाय स पुष्कराक्षं दचाऽनुजीविषु स सान्ध्यविधि व्यधत्त भूयोऽपि तारकितपुष्करसीम्नि काले हर्षादखिन्नहृदि संसदि संनिषण्णः / तत् तत्प्रमोदजननं किमपि जुवाणः शुश्राव किंपुरुषदम्पतिगीतगानम् निस्पन्दतेऽनुगगनं प्लवतेऽनुपृथ्वि सन्तर्प्यतेऽनुकरणं हियतेऽनुचेतः / इत्थं तदा तदुदिताद् नवगीतगीतात् श्रोतुर्जनस्य सहसाऽनुभवो बभूव पृष्टः स्वयं नृपतिना च कुतस्त्यमेतत् ? द्वन्द्वं प्रपन्नमिति सोऽपि हि पुष्कराक्षः / भूपाय सुन्दरविहङ्गमवाचि दक्षः सन्देहभङ्गकृतये मिथुनं जगाद विद्याधरेन्द्रदुहिता महितप्रभावा सा केशिनी प्रियसखी च विदर्भजायाः / DIEGISTEII-IIIEISHIIS ISII-ISITE // 21 // // 22 // // 23 //