SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ इत्थं सर्वैः कपटपटुभिस्तैरुदस्तः प्रकामं दत्तादृश्यीकरणमहिमा वासवं स प्रणम्य / ताहर भैमीदृढरतिरसभ्रंशदूतोऽपि दूरं दूतत्वस्य प्रसभनिहितं मारमङ्गीचकार // 57 // ततः सभृत्यः सह लोकपालैरन्तर्दधे तत्र सहस्रनेत्रः।। चिन्तापनीतप्रमदः प्रपेदे पृथ्वीपतिः स्वं पृतनानिवेशम् // 58 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे पञ्चमः सर्गः // 5 // ilalENSIlle IIIIIIIIIIIIIIITE द्वितीये दूत्यस्कन्धे षष्ठः सर्गः। तत्राऽऽसीनः स पर्यके विरलीकृतसेवकः / सुचिरं चेतसा दध्यौ नवबद्ध इव द्विपः // 1 // न तथा दुःसहं सम्यक् प्रियाप्रेमप्रमार्जनम् / यथाऽऽसीद् दुर्वचस्तस्य स्वयं वासववाचिकम् // 2 // सारं सारं प्रियाप्रेम चेतसोऽन्तर्गतं तदा / वारं वारं धुनाति म करौ वृश्चिकदृष्टवत् अथवा वचनीयं यत् किमप्यस्ति तदस्तु मे। कर्त्तव्य एव देवार्थः पर्याप्तं चिन्तयाऽनया // 4 // तिधत्स्वपि पुमर्थेषु सर्वेष्वपि विशेषतः / पुंसामारब्धनिर्वाहः प्रथमं पुरुषव्रतम् ब्रह्मानं च कृतनं च मद्यपं गुरुतल्पगम् / दृष्ट्वा भ्रष्ठप्रतिज्ञं च नरः स्नानेन शुद्ध्यति SIAIIALIS
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy