SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ - AIIAINITIATI उत्तानपातिभिः पापैरभिमानवशंवदैः / अदीर्घदर्शिभिः सर्वैरस्माभिः किमिदं कृतम् ! // 13 // चिटिका बदरस्येव पृष्ठतः पुरतोऽपि वा / अस्माकं साम्प्रतं शक्तिर्न गन्तुं न निवर्णितुम् // 14 // तान् वीक्ष्य कुमुखान् शक्रः प्रत्युत्पन्नमतिस्ततः। नलं प्रति प्रतीहारं नैगमेषिणमादिशत् // 15 // दिवः सुर इवायाति कोऽयमित्याकुलं नलम् / समीपे सोऽपि संप्राप्य सप्रश्रयमभाषत // 16 // राजन् ! मा विभ्रमं कार्षीभेज सज्जातिथेयताम् / अयं त्वां स्वयमभ्येति भगवान् पाकशासनः // 17 // इति तद्वचनाद् राजा समुत्थाय ससंभ्रमम् / कृताञ्जलिः प्रफुल्लास्यः पौलोमीपतिमभ्यगात् / / 18 // अथ ललितमुखीभिर्मजुघोषादिकाभिस्त्रिदशवरवधूभिश्चामरैर्वीज्यमानम् अविरलकलकण्ठैः किन्नरैर्गीयमानं शुचिरुचिरचरित्रं चारणैः स्तूयमानम् // 19 // स्फुटमपि दुरवापं पापिभिर्द्रष्टुमुच्चैः सुकृतिभिरपि दूरं दीप्तिभिर्दुर्विभाव्यम्। तरुणतमतमालश्यामलादन्तरिक्षादवनिमवतरन्तं देवराजं ददर्श मकरमहिषधूमव्यक्तकेतूपसृष्टान् विकटविपुलनीलश्यामपिङ्गाङ्गभासः / वरुणयमकृशानूनद्भुतानूनशक्तीन् तमनु च मनुजेन्द्रस्तान् पुनर्लोकपालान् // 21 // नन्वेषोऽहं त्रिभुवनभुजः स्वामिनो लोकपालान् ? वन्दे युष्मञ्चरणयुगलं वीरसेनस्य पुत्रः। इत्यानन्दोच्वसितहृदयः पावकादीन् प्रणम्य प्रीतः प्रोचे स्वयमिति मितं सूनृतं भूमिपालः // 22 // छIIIIIIIIEIGIF IIIEI IIIII A
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy