________________ द्वितीये दूत्यस्कन्धे चतुर्थः सर्गः / द्वितीयस्कन्धे सर्गः 4 IISAR श्री पृथ्वीपीठा गतानां इन्द्रादीनां मन्त्रवलेन // 34 // नलेन स्तम्भिता सेना // DISFIIIIIIIIIIIIIIIIIII प्रभावस्तम्भितैर्यानैर्ददृशुस्तं दिवौकसः / संयमस्तिमितैरक्षः क्षेत्रज्ञमिव योगिनः // 1 // न शश्वसुर्न जगदुर्न च स्वं विविदुः स्वयम् / ययुश्च महसा शीघ्रं पश्यन्तस्तं दिवौकसः // 2 // महोन्नतिजुषा तेन सा निरर्गलगामिनी / सौभाग्यनलमन्त्रेण स्तम्भिता शक्रवाहिनी // 3 // लावण्यामृतपाथोधौ पार्थिवे पृथुवक्षसि / अपि मनानि प्रौढानां मनांसि त्रिदिवौकसाम् // 4 // अहो ! रूपमहो ! रूपमहो ! रूपमिति क्षणम् / मभस्तेषां धुनाति म स्तुतिझञ्झानिलो भृशम् // 5 // राजराजेश्वरः श्रीमान् स एवैष नलः कथम् ? / इत्थं परस्परं प्रोचुर्मन्दं मन्दं दिवौकसः // 6 // तत्र स्वयंवरे नूनं यात्यसौ पृथिवीपतिः / आभिरामिकमस्येदं यतः सर्वाभिषेणनम् // 7 // पद्मिन्या इव मार्तण्डं गङ्गाया इव सागरम् / अमुं विलोक्य वैदा नान्यस्मिन् रस्यते मनः // 8 // रूपलक्षणवर्णाद्यैरत्यन्तं हीनताजुषः / पुरस्तादस्य दृश्यन्ते देवासुरनरोरगाः एकहट्टवणिक् सोऽयं निश्चितं निषधेश्वरः / निजरूपक्रयक्रीतां दमयन्ती गृहीष्यति // 10 // मुर्खत्वादस्मदुत्कृष्टं भैमी त्यजति चेदमुम् / अप्रतीत्य परोत्कृष्टान् नास्मानपि वृणीत सा // 11 // गुणाधिकममुं मुक्त्वा सा कदाचिद् वृणीत नः / वृण्वत्याऽपि तदाऽस्माकं तया किमगुणज्ञया? // 12 // IIIII II ARIAll