________________ ANI AIIFIC IBFille जानासि जगतां वृत्तं नित्यं कामचरः प्रभो! / भृलोकविषय छिन्धि ममैकं संशयं ततः // 8 // येन युद्धेषु सर्वेषु त्वं साक्षी तेन पृच्छ्यसे / किं कलिप्रिय ! मेदिन्यां रणप्रत्यूहकारणम् // 9 // किंन सन्ति नरेन्द्राणां कुमाराः केऽपि वंशजाः। वीरशून्याऽथवा जाता कथं वन्ध्या वसुन्धरा॥१०॥ यदेतेऽद्यतने काले भूपालाः सुस्थिता इव / स्वर्गश्रियं न वाञ्छन्ति दुर्भगामिव कामिनीम् // 11 // प्राणांस्तृणाय मन्यन्ते युद्धबुद्धिजुषो भटाः / स्वर्गश्च स्वामिकार्य च द्वौ लाभौ च रणाङ्गणे // 12 // त्यक्तचार्मणकायानां दिव्यं वपुरुपेयुषाम् / पूर्व सुभटकोटीनां करोम्यातिथ्यमन्वहम् // 13 // सहत्यमपि यत्ते मां नोपसर्पन्ति संप्रति / तेनात्मानमहं मन्ये रक्षितारमिव श्रियः // 14 // अधिकं भान्ति पुष्पाणि पीयमानानि षट्पदैः / विभज्य भुज्यमानानि धनान्यतिथिमिस्तथा // 15 // सा किं श्रीयंत्र नो द्वारं दानकोलाहलाकुलम् / अपतत् पक्षिसङ्घातः कीदृशः फलितस्तरुः // 16 // यानि दानविहीनानां दिनान्यायान्ति यान्ति वा / अजातानां मृतानां वा तानि जानामि निश्चितम्॥१७॥ इति श्रुत्वा श्रुताम्भोधेर्वाचं प्राचीनबर्हिषः / उवाच वचनं प्रेमव्याकुलः कलहप्रियः // 18 // साधु साधु सुराधीश! प्रस्तुतं प्राज्ञ ! पृच्छसि / दिष्ट्या धर्मानुबद्धेयं वासना तव वासव ! // 19 // इदं च परमेश्वर्य विनयश्चायमीदृशः / मुधियां द्वयमप्येतत् पुरन्दर! दुरुत्तरम् // 20 // स्थाने यदतिथीनां त्वमभावेन विपीदसि / यत् सत्यं कृतकृत्यस्य न्यूनताऽपि तवेयती // 21 // 14-II A