________________ II * ISIT A SET A TEAISIT THEII of the अध्यास्थतां समागत्य तालहिन्तालशालिनः / दात्यूहव्यूहसञ्चारचारवो वरदास्तटाः // 11 // किमन्यद् वसुधाचन्द्र ! भीमभूपालभूस्तव / अङ्गीकरोति वेगेन सेनाकरपरिग्रहम् // 12 // तत् कुरुष्व महाराज ! चतुरङ्गचमूवृतः / दक्षिणाभिमुखीं यात्रां दक्ष! दाक्षिण्यवारिधे! // 13 // स तस्य तां समाकर्ण्य गर्भितार्थान्तरां गिरम् / विद्वान् विवेद वैदाः पृथक् सन्दिष्टमात्मनि / / 14 / / तेनाथ चक्षुषा क्षिप्तः श्रुतशीलोऽवदद् वचः / विदर्भभूः श्रुताऽस्माभिः स्वभावतिलकाङ्किता // 15 // तां विदर्भभुवं रम्यां प्रपन्नस्य स्वयम्बरे / देवस्य सैनिकानां च प्रमोदो वर्द्धतां चिरात् // 16 // न कश्चन विलम्बो नः संप्राप्ता एव केवलम् / वैशाखी पूर्णिमाऽस्माकं तत्र नूनं भविष्यति // 17 // इत्युक्तवति मन्त्रीशे सहस्रतुरगान्विताम् / स्वर्णकोटिं ददौ तस्मै नृपतिः पारितोषिकम् // 18 // विसृष्टो बहुमानेन स्वयं संभाष्य भूभुजा / कुण्डिनं प्राप्य तत् सर्व स नृपाय न्यवेदयत् // 19 // कान्तोदन्तसुधासारं वाञ्छन्ती शफरीमिव / दमयन्तीमिदं प्रोचे तद्वयस्याननेन च // 20 // औदीच्यान् कुर्वता सर्वान् भृभुजः कुण्डिनोत्सुकान् / नलं चाप्य मया लब्धा काचित् कनकवला // 21 // इत्युक्तिचतुरा सम्यक् संभाव्य नलसङ्गमम् / तस्मै दिदेश वैदर्भी पश्चाङ्गं हेमभूपणम् // 22 // इतश्च निश्चयप्राप्तप्रेयसीदर्शनोत्सुकः / चचाल चतुरङ्गिण्या सेनया निषधाधिपः // 23 // शेषः सीदति कर्मराट् विलिखति क्षोणीतलं मजति क्षुभ्यन्त्यम्युधयः पतन्ति गिरयः क्रन्दन्ति दिद्गन्तिनः / IASIATIANSISISE/I AIISle -