________________ द्वितीय स्कन्धे सर्गः१ द्वितीयः स्कन्धः। द्वितीये दूत्यस्कन्धे प्रथमः सर्गः / कुण्डिनाधीशेन दम यन्त्याः स्वयंवराचं प्रेषिता दूताः // // 30 // IBHII III AIIA ISIT A TELI NEMIES क्रमेण कुण्डिनाधीशः स्वतान् विससर्ज सः / चतुर्दिगन्तविश्रान्तानाह्वातुं पृथिवीपतीन् // 1 // ते गौडचौडकर्णाटलाटद्रविडचेदिषु / अङ्गबङ्गतिलङ्गेषु राजादेशात् प्रतस्थिरे प्रहितं तेषु कौबेर्या वर्षीयांसं वचोहरम् / सखीमुखेन वैदर्भी देवदत्तमवीवदत् सर्वोदीच्यनृपाबाने तात ! कार्य तथा मनः / शीघ्रमागमनोत्कण्ठं नलोऽलं कुरुते यथा // 4 // इत्यशेषविशेषज्ञः सोऽपि प्रत्युत्तरं ददौ / विधाय स्वजनाश्लेषं ययौ प्रत्युत्तरं तथा // 5 // विदग्धानुचरः सौम्यो वाग्मी जवनवाहनः / नृपानामन्त्रयन् सर्वानार्यावर्त्तमवाप सः // 6 // दृष्टस्तेन वनाभोगे धनुर्योग्यापरायणः / अश्ववारः सरित्तीरे श्रुतशीलान्वितो नलः // 7 // राजराजेश्वरं वीरं नलं कमललोचनम् / विलोक्य स निजं मेने कृतार्थ नयनद्वयम् रत्नोपायनपाणिस्तं प्रणम्य पृथिवीपतिम् / इति विज्ञपयामास ललाटघटिताञ्जलिः विदर्भाधिपतिर्देवः श्रीमान् भीमनरेश्वरः / आमन्त्रयति देव ! त्वां स्वयंवरमहोत्सवे // 10 // II AISI III II II AISINS // 30 //